SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Sपाङ्गमिति शेषः, एतच्च ग्रन्थाग्रेण साधिकैकचत्वारिंशच्छतश्लोकमान, यत्तु श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिटीकायां द्विती यप्राभृतप्राभृते 'एवामेव सपुवावरेणं जम्बुद्दीवे दीवे चउद्दस सलिलासयसहस्साई छप्पण्णं च सलिलासहस्साई भवंतीतिमक्खाय'मित्यंत श्लोकसहस्रचतुष्टयमानमुक्तं, ज्योतिष्काधिकारसूत्रमीलनेन च सप्तचत्वारिंशच्छताधिकमपि, तत्त यावत्पदसंग्रहेण जन्माधिकारबृहद्वाचनाप्रक्षेपेण च तावत्परिमाणं सम्भाव्यत इति बोध्यं । अत्र गुणान् विभावयन्नाह'अजो अज्झयणे अटुं च हेउं च पसिणं च'इत्यादि, आरात्-सर्वपापाद् दूरं यातः आर्य:-श्रीवर्द्धमानस्वामी अत एव | सर्वसावद्यवर्जकत्वेन 'सावधं निरर्थक तुच्छार्थकं च न बयादिति वक्तप्रामाण्येन वचनप्रामाण्यमावेदितं भवति, अथवा श्रीसुधर्मस्वामिसम्बोधनं श्रीजम्बूस्वामिनं प्रति हे आर्य ! इति, अध्ययने-प्रस्तुतजम्बूद्वीपप्रज्ञप्तिनामके स्वतन्त्राध्ययने न तु शस्त्रपरिज्ञादिवत् श्रुतस्कन्धाद्यन्तर्गते अर्थ च चाः परस्परं समुच्चयार्थाः हेतुं च प्रश्नं च कारणं च व्याकरणं च भूयो भूयो-विस्मरणशीलश्रोत्रनुग्रहार्थ वारंवार प्रकाशनेन अथवा प्रतिवस्तु नामार्थादिप्रकाशनेनोपदर्शयतीति सम्बन्धः, अनेन गुरुपारतन्यमभिहितं, तत्रार्थो जम्बूद्वीपादिपदानामन्वर्थः, स यथा 'से केणद्वेणं भन्ते! एवं बुच्चइ-जम्बुद्दीवे दीवे ?, गोअमा! जम्बुद्दीवे णं दीवे तत्थ तत्थ देसे तहिं २ बहवे जम्बूरुक्खा जम्बूवणा जम्बूवणसंडा णिचं कुसुमिआ || जाव पिंडिममंजरिवडेंसगधरा सिरीए अईव २ उवसोभेमाणा चिट्ठति, जम्बूए अ सुदंसणाए अणाढिए णामं देवे || महिद्धीए जाव पलिओवमहिईए परिवसइ, से तेणटेणं गोअमा! एवं वुच्चइ-जम्बुद्दीवे २' इति, तथा हेतु:-निमित्तं स :02 Jan Education For Private Personel Use Only T ww.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy