________________
दर्शनतो वर्तुलतया दृश्यमानत्वात् सोऽपि न सम्यग्भावमञ्चति पूर्णवृत्तस्यापि तथा दर्शनात् , उच्यते, इहार्द्धकपि-15 स्थाकाराणि न सामस्त्येन विमानानि प्रतिपत्तव्यानि किन्तु विमानानां पीठानि, तेषा पीठानामुपरि चन्द्रादीनां प्रासादास्ते च प्रासादास्तथा कथंचनापि व्यवस्थिता यथा पीठैः सह भूयान् वर्तुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततो न कश्चिद्दोषः। अथाष्टमं द्वारं पृच्छति-'चन्दविमाणे 'मित्यादि, चन्द्रविमानं णमिति प्राग्वत्, भदन्त! कियदायामविष्कम्भेन कियद्वाहल्येन-उच्चैस्त्वेन प्रज्ञप्तं?, उपलक्षणात् सूर्यादिविमानमपि प्रनितं द्रष्टव्यं, अत्र पद्येनोत्तरसूत्रमाह-गौतम ! खल्वितिपदं निश्चयेऽलङ्कारे वा षट्पञ्चाशदेकषष्टिभागान् योजनस्य विस्तीर्ण चन्दमण्डलं भवति, अयमर्थः-एकस्य प्रमाणांगुलयोजनस्यैकषष्टिभागीकृतस्य षट्पञ्चाशता भागैः समु| दितैर्यावत्प्रमाणं भवति तावत्प्रमाणोऽस्य विस्तार इत्यर्थः, वृत्तवस्तुनः सदृशायामविष्कम्भत्वात् , एवमेवोत्तरसूत्रं, तेनायामोऽपि तावानेव, परिक्षेपस्तु स्वयमभ्युह्यः, वृत्तस्य सविशेषस्त्रिगुणः परिधिरिति प्रसिद्धेः, बाहल्यं चाष्टाविंश-19 तिभागान् यावत्तस्य बोद्धव्यं, षट्पञ्चाशद्भागानाम॰ एतावत एव लाभात् , सर्वेषामपि ज्योतिष्क(काणां)विमानानां 81 (नि) स्वस्वव्यासप्रमाणात् अर्द्धप्रमाणबाहल्यानीति वचनात् , तथा अष्टचत्वारिंशतं भागान् विस्तीर्ण सूर्यमण्डलं भवति,191 चत्वारिंशद्(चतुर्विंशति)भागान् यावद् बाहल्यं तस्य बोद्धव्यं, तथा द्वौ कोशौ च ग्रहाणां तदेवार्द्ध योजनमित्यर्थः, | तथा नक्षत्राणां तु भवति तस्यार्द्ध-एक कोशमित्यर्थः, तस्यार्द्ध क्रोशार्द्धमित्यर्थः ताराणां विमानानि विस्तीर्णानि,
Jain Education in
For Private & Personal Use Only
IN
.jainelibrary.org