________________
श्चतुर्विंशतिषष्टिभागाः एकस्य च द्वापष्टिभागस्य सप्तपष्टिच्छेदकृताः परिपूर्णाः षट्पष्टिभागाः, तथा एकोनषष्ट-एकोनषष्ट्यधिकं शतं प्रोष्ठपदानां-उत्तरभद्रपदानां शोधनकं, किमुक्तं भवति ? एकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्ध्यन्ति, एवमुत्तरत्रापि भावनीयं, तथा त्रिषु नवोत्तरेषु रोहिणीपर्यन्तानि शुद्ध्यन्ति, तथा त्रिषु नवनवतेषुनवनवत्यधिकेषु शतेषु शोधितेषु पुनर्वसुपर्यन्तं नक्षत्र जातं शुद्ध्यति, तथा एकोनपञ्चाशदधिकानि पश्च शतानि प्राच्यफाल्गुन्युत्तरफल्गुनीपर्यन्तानि नक्षत्राणि शुद्ध्यन्ति, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु एकोनसप्तत्यधिकानि षट् शतानि ६६९ शोध्यानि, मूलपर्यन्ते नक्षत्रजाते सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४ शोध्यानि, उत्तराषाढानां-उत्तराषाढापर्यन्तानां नक्षत्राणां शोधनकं अष्टौ शतान्येकोनविंशत्यधिकानि ८१९, सर्वेष्वपि च शोधनकेषु उपरि अभिजितो नक्षत्रस्य सम्बन्धिनो मुहूर्त्तस्य द्वापष्टिभागाश्चतुर्विंशतिः षट्षष्टिश्च चूर्णिकाभागा एकस्य द्वापष्टिभागस्य सप्तपष्टिभागाः शोधनीयाः, 'एआई सोहइत्ता जं सेसं तं हवइ णक्खत्तं । इत्थं करेइ उडुवइ सूरेण समं अमावासं ॥११॥ एतानि-अनन्तरोदितानि शोधनकानि यथायोग शोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्र, एतस्मिंश्च! नक्षत्रे करोति सूर्येण समं उडुपतिरमावास्यामिति करणगाथासमूहाक्षरार्थः, भावना त्वियं-केनापि पृच्छयते-युगस्यादौ प्रथमा अमावास्या केन नक्षत्रेणोपेता समाप्तिमुपैतीति ?, तत्र पूर्वोदितस्वरूपोऽवधार्यराशिः षट्शष्टिर्मुहर्ताः पञ्च द्वापष्टिभागाः एकस्य च द्वापष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपो ध्रियते, धृत्वा चैकेन गुण्यते, प्रथमायाः अमावा
Jain Education
anal
For Private Personal Use Only
w.jainelibrary.org