SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अष्टाविंशतेनक्षत्राणां मध्ये अभिजिन्नक्षत्रं कति अहोरात्रान् सूर्येण सार्द्ध योग योजयति', गौतम! चतुरोऽहोरात्रान् षट् च मुहूर्तान् सूर्येण सार्द्ध योग योजयति, कथमिति चेत् , उच्यते, यन्नक्षत्रमहोरात्रस्य यावतः सप्तषष्टिभागान् चन्द्रेण सह समवतिष्ठते तन्नक्षत्रं तावतः एकविंशत्यादीनित्यर्थः पञ्चभागान्-रात्रिन्दिवस्य पञ्चमांशरूपान् , तैः पञ्चभिरेकं रात्रिन्दिवं भवतीत्यर्थः, सूर्येण समं व्रजति, इदमत्र हृदयं-यस्य नक्षत्रस्य यावंतः सप्तषष्टिभागाश्चन्द्रयोगयोग्यास्ते पञ्चभिर्भज्यन्ते, लब्धं तत्पञ्चमभागात्मकमहोरात्रं, शेष त्रिंशता गुणयित्वा पञ्चभिर्भज्यते लब्धं मुहूर्ताः, उतं च-"जं रिक्खं | जावइए वच्चइ चन्देण भागसत्तही। तं पणभागे राइंदिअस्स सूरेण तावइए ॥१॥"त्ति, तद्यथा-अभिजिन्नक्षत्रमेकविंशति सप्तषष्टिभागान् चन्द्रेण समं वर्तते ततः एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं वर्तनमवसेयम्, एकविंशतेश्च पञ्चभिर्भागे हृते लब्धाश्चत्वारोऽहोरात्राः, एकः पञ्चमभागोऽवतिष्ठते स मुहूर्तानयनाय त्रिंशता गुण्यते | जातास्त्रिंशत्तस्याः पञ्चभिर्भागे हृते लब्धाः षट् मुहूर्ता इति, एवमभिजिन्न्यायेन शेषनक्षत्राणां सूर्ययोगकालप्ररूपणं | इमाभिर्वक्ष्यमाणाभिर्गाथाभिर्नेतव्यं, तत्राभिजिन्नक्षत्रं षण्मुहूर्तान् चतुरश्च केवलान-परिपूर्णान् अहोरात्रान् सूर्येण सम 18 गच्छति, अत्रोपपत्तिः प्रथमत एव कृता, अथ ऊर्ध्व शेषाणां नक्षत्राणां सूर्येण समं योगान् कालपरिमाणमधिकृत्ये | ति गम्यं वक्ष्यामि, तथाहि-शतभिषक् भरणी आर्द्रा अश्लेषा स्वातिः ज्येष्ठा चेत्येतानि षट् नक्षत्राणि प्रत्येकं सूर्येण ९ | समं ब्रजन्ति मुहूर्तानेकविंशति षट् चाहोरात्रानिति, तद्यथा-एतानि नक्षत्राणि चन्द्रेण समं सार्द्धान् त्रयस्त्रिंशत् Jain Educatan inte For Private & Personel Use Only ww.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy