SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू. ८४ Jain Education | पाठं प्रापणीया भणितव्या इत्यर्थः अनुपरिपाटि - अभिजिदा दिनक्षत्र परिपाठ्यनुसारेण देवतानाम्नामावलिका, इमाश्च | देवतास्ताः - ब्रह्मा १ विष्णुः २ वसुः ३ वरुणः ४ अजः ५ अभिवृद्धिः ६ अन्यत्राहिर्बुन इति, पूषा - पूषनामको देवो न तु सूर्यपर्यायस्तेन रेवत्येव पौष्णमिति प्रसिद्धं, अश्वनामको देवविशेषः ८ यमः ९ अग्निः १० प्रजापतिरिति ब्रह्मना - | मको देवः, अयं च ब्रह्मणः पर्यायान् सहते, तेन ब्राह्वयमित्यादि प्रसिद्धम् ११ सोमः - चन्द्रस्तेन सौम्यं चान्द्रमसमि| त्यादि प्रसिद्धम् १२ रुद्रः- शिवस्तेन रौद्री कालिनीति प्रसिद्धं १३ अदितिः देवविशेषः १४ बृहस्पतिः प्रसिद्धः १५ सर्पः १६ पितृनामा १७ भगनामा देवविशेषः १८ अर्यमा - अर्थमनामको देवविशेषः १९ सविता - सूर्यः २० त्वष्टात्वष्टृनामको देवस्तेन त्वाष्ट्री चित्रा इति प्रसिद्धं २१ वायुः २२ इन्द्राग्नी २३ तेन विशाखा द्विदैवतमिति प्रसिद्धं, | मित्रो - मित्रनामको देवः २४ इन्द्रः २५ नैर्ऋतः - राक्षसस्तेन मूलः आस्रप इति प्रसिद्धं २६ आपो-जलनामा देवस्तेन | पूर्वाषाढा तोयमिति प्रसिद्धं २७ विश्वे देवास्त्रयोदश २८, सूत्रालापकान्तस्थितश्चकारः समुच्चये, एवमभिजित्सूत्रद| र्शितप्रश्नोत्तररीत्या नक्षत्राणां देवा इत्यधिकारतो गम्यम् । एतया - ब्रह्मविष्णुवरुणादिरूपया परिपाठ्या न तु परतीर्थि| कप्रयुक्त अश्वयमदहन कमलजादिरूपया नेतव्या - परिसमाप्तिं प्रापणीया यावदुत्तराषाढा किंदेवता प्रज्ञता ?, गौतम' ! | विश्वदेवता प्रज्ञष्ठेति । अथ तारासङ्ख्याद्वारमाह - 'एतेसि ण' मित्यादि, एतेषां भदन्त ! अष्टाविंशतेर्नक्षेत्रांणां मध्येs - |भिजिन्नक्षत्रं कति तारा अस्येति कतितारं प्रज्ञप्तम् ?, भगवानाह - गौतम ! तिस्रस्तारा अस्येति त्रितारं प्रज्ञप्तम्, तारा For Private & Personal Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy