________________
တွေ့
'जोगो देवय' इत्यादि, योगोऽष्टाविंशतेर्नक्षत्राणा किं नक्षत्रं चन्द्रेण सह दक्षिणयोगि किं नक्षत्रमुत्तरयोगि इत्यादिको दिग्योगः १ देवताः-नक्षत्रदेवताः २ ताराग्रं-नक्षत्राणां तारापरिमाणं ३ गोत्राणि नक्षत्राणां ४ संस्थानानि नक्षत्राणा ९५ चन्द्ररवियोगो-नक्षत्राणां चन्द्रेण रविणा च सह योगः ६, कुलानि-कुलसंज्ञकानि नक्षत्राणि उपलक्षणादुपकुलानि है कुलोपकुलानि च ७ कति पूर्णिमाः कति अमावास्याश्च ८ सन्निपातः-एतासामेव पूर्णिमामावास्यानां परस्परापेक्षया
नक्षत्राणां सम्बन्धः ९, चः समुच्चये, नेता-मासस्य परिसमापकस्त्रिचतुरादिनक्षत्रगणः१०, चः समुच्चये, छायाद्वारं तु नेतृद्वारानुयायित्वेन न पृथक्कृतमिति॥ अथ चन्द्रस्य नक्षत्रैः सह दक्षिणादिदिग्योगोभवति तेन प्रथमतो नक्षत्रपरिपाटीमाह-'कति णं भन्ते!'इत्यादि, अत्र शब्दसंस्कारा इमे, अभिजित् १ श्रवणः२ धनिष्ठा ३ शतभिषक् ४ पूर्वभद्रपदा ||५ उत्तरभद्रपदा ६ रेवती ७ अश्विनी ८भरणी ९ कृत्तिका १० रोहिणी ११ मृगशिरः १२ आर्द्रा १३ पुनर्वसु १४ पुष्यः 1१५ अश्लेषा १६ मघा १७ पूर्वाफाल्गुनी १८ उत्तराफाल्गुनी १९ हस्तः २० चित्रा २१ स्वातिः २२ विशाखा २३ ||
अनुराधा २४ ज्येष्ठा २५ मूलं २६ पूर्वाषाढा २७ उत्तराषाढा २४, अयं च नक्षत्रावलिकाक्रमोऽश्विन्यादिकं कृत्तिका-18 दिकं वा लौकिकं क्रममुल्लङ्घय यजिनप्रवचने दर्शितः स युगादौ चन्द्रेण सहाभिजिद्योगस्य प्रथम प्रवृत्तत्वात्, न चात्र 8 'बहि मूलोऽभंतरे अभिई' इति वचनादभिजितः सर्वतोऽभ्यन्तरस्थायित्वेन नक्षत्रावलिकाक्रमेण पूर्वमुपन्यास इति वाच्यं, नक्षत्रक्रमनियमे चन्द्रयोगक्रमस्यैव कारणत्वात् न तु सर्वाभ्यन्तरादिमण्डलस्थायित्वस्य अन्यथा षष्ठादिमण्ड
Jain Education Internation
For Private & Personel Use Only
Maaw.jainelibrary.org