________________
तनकूटादीन्येकादश कूटान्युक्तानि तेभ्योऽतिरिक्तानि बहूनि शिखराणि वृक्षाकारपरिणतानि सन्तीति, अनेन चान्येभ्यो वर्षधरेभ्यो व्यावृत्तिः कृता, अन्यथा तेषामपि कूटवत्वेन शिखरित्वव्यपदेशः स्यादिति, अथवा शिखरी चात्र | देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति तेन तत्स्वामिकत्वात् शिखरीति, से तेणटुण'मित्यादि निगमनवाक्यं पूर्ववदिति । अथ सप्तमवर्षावसरः-'कहिण'मित्यादि,व भदन्त ! जम्बूद्वीपे द्वीपे ऐरावतं नाम वर्ष प्रज्ञप्तम् , गौतम! शिखरिणो वर्षधरस्योत्तरस्यां उत्तरदिग्वर्तिनो लवणसमुद्रस्य दक्षिणस्यां 'पुरस्थिमे'त्यादि प्राग्वत् अत्रान्तरे जम्बूद्वीपे ऐरावतं नाम वर्ष प्रज्ञप्त, स्थाणुबहुलं कण्टकबहुलं एवमनेन प्रकारेण यैव भरतस्य वक्तव्यता सैवास्यापि सर्वा निरवशेषा नेतव्या, यतो यन्मेरोदक्षिणभागे तन्निरवशेषमुत्तरेऽपि भागे भवति, यथा वैतान्येन द्वेधा कृतं भरतमित्यायुक्तं तथैवैरावतेऽपि विज्ञेयमिति, सा च कथंभूतेत्याह-सओअवणा-षट्खण्डैरावतक्षेत्रसाधनसहिता सनिक्खमणा-दीक्षाकल्याणकवर्णकसहिता सपरिनिर्वाणा-मुक्तिगमनकल्याणकसहिता, नवरं राजनगरी क्षेत्रदिगपेक्षया ऐरावतोत्तरार्द्धमध्ये तापक्षेत्रदिगपेक्षया त्वेषाऽपि दक्षिणार्द्ध एव केवलमिह शास्त्रे क्षेत्रदिगपेक्षया व्यवहारः, क्षेत्रदिक् च 'इंदा | विजयदाराणुसाराओं' इत्यादिना भावनीयेति, तथा वैताब्यश्चात्र विपर्ययनगरसङ्ख्यः, जगत्यनुरोधेन क्षेत्रसाङ्कीयात् , तथैरावतनामा चक्रवती वक्तव्यः, कोऽर्थः-यथा भरतक्षेत्रे भरतश्चक्रवत्ती तस्य च दिग्विजयनिष्क्रमणादिकं निरूपितं तथैरावतचक्रवर्तिनो वाच्यं, अनेन चैरावतस्वामियोगादैरावतमिति नाम सिद्धं, अथवा ऐरावतो नाम्नाऽत्र
hiww.jainelibrary.org
Jan Education