________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३७९ ॥
Jain Education Inte
न्ताया महानद्याः पश्चिमायां नारीकान्तायाः पूर्वस्यां रम्यकवर्षेस्य बहुमध्यदेशभागे अत्रान्तरे गन्धापाती नाम वृत्तवैताढ्यः प्रज्ञप्तः, यदेव विकटापातिनो हरिवर्षक्षेत्रस्थितवृत्तवैताढ्यस्योच्चत्वादिकं तदेव गन्धापातिनोऽपि वक्तव्यं, यच्च सविस्तरं निरूपितस्य शब्दापातिनोऽतिदेशं विहाय विकटापातिनोऽतिदेशः कृतस्तत्र तुल्यक्षेत्रस्थितिकत्वं हेतुः अत्र यो विशेषस्तमाह — अर्थस्त्वयं - वक्ष्यमाणो बहून्युत्पलानि यावद् गन्धापातिवर्णानि - तृतीयवृत्तवैताढ्यवर्णानि गन्धापातिवर्णसदृशानीत्यर्थः रक्तवर्णत्वात् गन्धापातिप्रभाणि - गन्धापातिवृत्तवैताढ्याकाराणि सर्वत्र समत्वात् तेन तद्वर्णत्वात् तदाकारत्वाच्च गन्धापातीनीत्युच्यन्ते, पद्मश्चात्र देवो महर्द्धिकः पल्योपमस्थितिकः परिवसति, तेन तद्योगातत्स्वामिकत्वाच्च गन्धापातीति, यथा च विसदृशनामकस्वामिकत्वेन नामान्वर्थोपपत्तिस्तथा प्रागभिहितं, अस्याधिपस्य | राजधान्युत्तरस्यां । अथ रम्यकक्षेत्रनामनिबन्धनमाह --- ' से केणद्वेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यतेरम्यकं वर्ष २१, गौतम ! रम्यकं वर्ष रम्यते क्रीड्यते नानाकल्पद्रुमैः स्वर्णमणिखचितैश्च तैस्तैः प्रदेशैरतिरमणीयतया | रतिविषयतां नीयते इति रम्यं रम्यमेव रम्यकं रमणीयं च त्रीण्येकार्थिकानि रम्यतातिशयप्रतिपादकानि रम्यकश्चात्र देवो यावत् परिवसति तेन तद् रम्यकमिति व्यवह्रियते । अथ पञ्चमो वर्षधरः – 'कहि णं भन्ते !' क्व भदन्त ! जम्बूद्वीपे द्वीपे रुक्मी नाम वर्षधरपर्वतः प्रज्ञप्तः १, गौतम ! रम्यकवर्षस्य उत्तरस्यां वक्ष्यमाणहैरण्यवतक्षेत्रस्य दक्षिणस्यां पूर्वलवणसमुद्रस्य पश्चिमायां पश्चिमलवणसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे रुक्मीनाम्ना पञ्चमो वर्षधरः
For Private & Personal Use Only
४ वक्षस्कारे रम्पकादीनि सू० १११
॥३७९ ॥
www.jainelibrary.org