________________
OCK
द्वीपशा- न्तिचन्द्रीया वृत्तिः ॥३६॥
तलतो नवनवतियोजनसहस्राण्यूर्ध्वगमने पृथुत्वगतनवयोजनसहस्राणि तुबटुरित्यर्थः, अथास्य परिधिः-मूले एक- ४वक्षस्कारे त्रिंशद्योजनसहस्राणि नव च शतानि दशोत्तराणि श्रींश्चैकादशभामान् योजनस्य परिक्षेपेण, धरणीतले एकत्रिं-18 मेरुपर्वतः | शद्योजनसहस्राणि षट् च त्रयोविंशत्यधिकानि योजनशतानि परिक्षेपेण उपरितले त्रीणि योजनसहस्राणि एक |च द्वापश्यधिक योजनशतं किञ्चिद्विशेषाधिक परिक्षेपेण, अथाद्यपरिधिगणितं मूले विष्कम्भस्य सच्छेदत्वाद्विषममिति दय॑ते-मूले च विष्कम्भो दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्य १००९०१० तत्र योजनराशावेकादशभागकरणार्थमेकादशभिर्गुणिते उपरितनदशभागक्षेपे च जाता एकादशभागा लक्षमेकादश च सहस्राणि १११००० ततोऽस्य राशेर्वर्गकरणे जातं एकको द्विकस्त्रिको द्विकः एककः षट् च शून्यानि १२३२१०००००० ततोऽस्य दशभिर्गुणने जातानि सप्त शून्यानि १२३२१००००००० अथास्य वर्गमूलानयने लब्धस्त्रिकः पञ्चक एककः शुन्यमेकको द्विकः ३५१०१२ अथास्य योजनकरणार्थ ११ भावः लब्धं योजन |३१९१० अंश २, शेष ५७५८५६१७०२०२४, अर्द्धाभ्यधिकत्वाद्रूपे दत्ते अंशाः ३, समभूतलगतपरिधावपि ३१६२२
॥३६१॥ योजनानि अवशिष्टांशानाम भ्यधिकत्वाद्रपे दत्ते त्रयोविंशतिर्योजनानि, शिखरपरिधौ चार्द्धतो न्यूनत्वादंशानां सूत्रे | किंचिदधिकत्वं न्यवेदि, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुकः ऊर्ध्व मेखलाद्वयाविवक्षया उदस्तगोपुच्छाकारेण संस्थितः सर्वात्मना रत्नमयः, इदं च प्रायोवचनं, अन्यथा काण्डत्रयविवेचने आद्यकाण्डस्य पृथ्व्युपलशर्करा-1
For Private Personal Use Only
O
Jain Education inte
jainelibrary.org