________________
Jain Education In
• हरिकुडे रायहाणी जह चैव दाहिणेणं चमरचंचा रायहाणी तह णेअव्वा, कणगसोवत्थिअकूडेसु वारिसेणबलाहयाओं दो देवयाओ अवसिद्वे कूडे कूडसरिसणामया देवा रायहाणीओ दाहिणेणं, से केणटुणं भन्ते । एवं वुच्चइ - विज्जुप्पमे वक्खारपव्वए २१, गोमा ! विज्जुप्पभे णं वक्खारपव्वए विज्जुमिव सव्वओ समन्ता ओभासेइ उज्जोवेइ पभासइ बिज्जुप्पभे य इत्य देवे ओम जाव परिवसर, से एएणद्वेणं गोअमा ! एवं वुञ्चइ विज्जुप्पमे २, अदुत्तरं च णं जाव णिचे ( सूत्रं १०१ )
'कहि ण' मित्यादि, प्रश्नसूत्रं प्राग्वत्, नवरं कूटाकारा - शिखराकारा शाल्मली तस्याः पीठं, उत्तरसूत्रे मन्दरस्य | पर्वतस्य दक्षिणपश्चिमायां - नैर्ऋतकोणे निषधस्योत्तरस्यां विद्युत्प्रभवक्षस्कारस्य पूर्वतः शीतोदाया महानद्याः पश्चिमायां देवकुरूणां शीतयोत्तरकुरूणामिव शीतोदया द्विधाकृतानां पश्चिमार्द्धस्य बहुमध्यदेशभागे अत्र - प्रज्ञापक निर्दिष्टदेशे देवकुरुषु कूटशाल्मल्याः कूटशाल्मलीपीठं प्रज्ञप्तम्, एवमुक्तसूत्रानुसारेण यैव जम्ब्वाः सुदर्शनाया वक्तव्यता सैव शाल्मस्या अपि भणितव्या, अत्र विशेषमाह - नामभिः प्राग्व्यावर्णितैर्द्वादशभिर्जम्बूनामभिर्विहीना, इह शाल्मलीनामानि न सन्तीत्यर्थः, तथा अनादृतस्थाने गरुडदेवोऽत्र, गरुडो - गरुडजातीयो वेणुदेवनामा मतान्तरेण गरुडवेगनामा वा देवः, राजधान्यस्य मेरुतो दक्षिणस्यां तथा सूत्रेऽनुक्तमपीदं बोध्यं - अस्य पीठं कूटानि च प्रासादभवनान्तरालवसनि रजतमयानि जम्बूवृक्षस्य तु स्वर्णमयानि अपि चायं शाल्मलीवृक्षो यदा तदा वा सुपर्णकुमाराधिपवेणुदेव वेणुदालिक्रीडास्थानं, तथा चाह सूत्रकृताङ्गचूर्णिकृत् शाल्मलीवृक्षवक्तव्यतावसरे - " तत्थ वेणुदेवे वेणुदाली अ वसइ "
For Private & Personal Use Only
www.jainelibrary.org