________________
जनप्रमाणविस्तारस्य हैमवतस्य मध्यवत्ती योजनसहस्रमान एष गिरिः कथं क्षेत्रं द्विधा विभजति?, उच्यते, प्रस्तुत क्षेत्रव्यासो हि उभयोः पार्श्वयोः रोहितारोहितांशाभ्यां नदीभ्यां रुद्धः मध्यतस्त्वनेन, अथ नदीरुद्धक्षेत्रं वर्जयित्वाऽव-1 शिष्टक्षेत्रमसौ द्विधा करोतीत्यस्मिन्नन्वर्थवती वैताढ्यशब्दप्रवृत्तिरिति, एवं शेषेष्वपि वृत्तवैताढ्येषु स्वस्वक्षेत्रस्वस्वनदीनामभिलापेन भाव्यं, दिविभागनियमनं सुलभमिति न व्याख्यायते, एकं योजनसहस्रमूर्बोच्चत्वेन अर्द्धतृतीयानि योजनशतान्युद्वेधेन सर्वत्र समः-तुल्योऽधोमध्योर्ध्वदेशेषु सहस्रसहस्रविस्तारकत्वात् , अत एव पल्यङ्कसंस्थानसंस्थितः, पल्यश्च-ललाटदेशप्रसिद्धोवंशदलेन निर्मापितो धान्याधारकोष्ठकः, एक योजनसहस्रमायामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि एकं च द्वाषष्ट्यधिकं योजनशतं किञ्चिद्विशेषेण करणवशादागतेन सूत्रानिर्दिष्टेन राशिना अधिक परिक्षेपेण प्रज्ञप्त, सर्वात्मना रत्नमयः, केचन रजतमयान् वृत्तवतान्यानाहुः परं तेषामनेन ग्रन्थेन सह विरुद्धत्वमिति । अथात्र, पद्मवरवेदिकाद्याह-से ण'मित्यादि, व्यक्तं, 'सहावइस्स ण'मित्यादि, व्यक्तं ॥ अथ नामार्थ निरूपयन्नाहसे केणढेणं भन्ते !'इत्यादि, प्रागुक्तऋषभकूटप्रकरणवद् व्याख्येयं, नवरं ऋषभकूटप्रकरणे ऋषभकूटप्रभैः ऋषभकूटवणैरुत्पलादिभिर्ऋषभकूटनामनिरुक्तिर्दर्शिता अत्र तु शब्दापातिप्रभैः शब्दापातिवणः उत्पलादिभिः शब्दापातिवृत्तवैतान्यनामनिरुक्तिर्द्रष्टव्या, शब्दापाती चान देवो महर्द्धिको यावन्महानुभावः पल्योपमस्थितिकः परिवसति, अथ शब्दापातिदेवमेव विशिनष्टि-से णं तत्थ'इत्यादि, स-शब्दापाती देवस्तत्र-प्रस्तुतगिरौ चतुर्णा सामानिकसहस्राणां
Jain Education
a
l
For Private Personal Use Only
Howw.iainelibrary.org