________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ७४ ॥
Jain Education Int
कैकस्यां श्रेण्यां द्वे पद्मवरवेदिके द्वे च वनखण्डे इत्युभयोः श्रेण्योर्मीलने चतस्रः पद्मवर वेदिकाश्चत्वारि वनखण्डानीति " ज्ञेयं, संवादी चायमर्थः श्रीमलयगिरिकृतबृहत् क्षेत्रसमासवृत्त्या, तथा च तत्रोक्तम् - " एकैका च श्रेणिरुभयपार्श्ववर्त्तिभ्यां वैताढ्यप्रमाणायामाभ्यां द्वाभ्यां २ पद्मवरवेदिकाभ्यां द्वाभ्यां २ वनखण्डाभ्यां समन्ततः परिक्षिप्ते"ति, शेषं सूत्रं गतार्थमिति, अथ तयोः श्रेण्योः स्वरूपं पृच्छति - ' विजाहरे' त्यादि गतार्थं, नवरं अत्र बहुष्वादर्शेषु 'नाणामणिपंचवण्णेहिं मणीहिं' इति पाठो न दृश्यते, परं राजप्रश्नीयसूत्र वृत्त्योईष्टत्वात् सङ्गतत्वाच्च 'नाणाविहपंचवण्णेहिं मणीहिं तणेहिं' इति पाठो लिखितोऽस्तीति बोध्यं, अधोभयश्रेण्योर्नगरसङ्ख्यामाह - ' तत्थ णं दाहिणिल्लाए' इत्यादि, तत्र| तयोः श्रेण्योर्मध्ये दक्षिणस्यां विद्याधरश्रेण्यां गगनवल्लभप्रमुखाः पंचाशद्विद्याधरनगरावासाः प्रज्ञप्ताः, 'व्याख्यातो विशेषप्रतिपत्तिरिति तेन नगरावासा राजधानीरूपा ज्ञेयाः, स्वस्वदेशप्रतिबद्धाः, यदाह – “ते' दसयोजणपिहुले हिं सेढीसु जम्मुत्तरासु सजणवया । गिरिवरदीहासु कमा खयरपुरा पण्ण सट्ठी या ॥ १ ॥” इति, उत्तरस्यां विद्याधरश्रेण्यां | रथनूपुरचक्रवालप्रमुखाः षष्टिर्विद्याधरनगरावासाः प्रज्ञप्ताः, दक्षिणश्रेणेः सकाशादस्या अधिकदीर्घत्वात्, ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनुपूरचक्रवालं उत्तरश्रेण्यां गगनवल्लभमुक्कं तत्त्वं तु सातिशयश्रुतधरगम्यं, अनयोर्मुख्यता च श्रेण्यधिपराजधानीत्वेनेति, 'एवमेवेत्युक्तन्यायेनैव सह पूर्वेण यदपरं तत् सपूर्वापरं संख्यानं तेन दक्षिणस्या१ तानि दशयोजनपृथक्त्वयोः श्रेण्योर्याम्येतरयोः सजनपदानि । गिरिवरदीर्घयोः क्रमात् खचरपुराणि पंचाशत् षष्टिः ॥ १ ॥
For Private & Personal Use Only
९ वक्षस्कारे वैतान्यवर्णनं सू. १२
॥ ७४ ॥
Mainelibrary.org