________________
चतुर्वि शति
पूज्यपाद गुरुभ्यो नमः
प्रस्तावना.
अस्य ग्रन्थस्य विचित्रयमकपदलालित्यादिगुणयुक्तस्य पण्डितजनमनश्च मत्कारिणो रचयितारः श्रीपण्डितमेरुविजय मुनीश्वराः के ? कदा चावनीतलं पावयामासुरिति मीमांसायां - एतत्पर्यवसाने “ श्रीतपागच्छाधिपतिश्रीविजयसेन सूरीश्वरराज्ये सकलपण्डितोत्तमपण्डितश्रीआनन्दविजयगणिचरणकमलचञ्चरीकायमाणेन पण्डितमेरुविजयगणिना विरचिता ” इत्यवलोकनेन विजयसेन सूरि| समानकालीनत्वादानन्द विजय शिष्यत्वाच्च तत्परिपूर्तिरुपजायते । श्री विजय सेनसत्तासमयश्च विक्रमसप्तदशशतके सुप्रसिद्ध एव तेन पूज्यपादानां स एवेति निर्णयपथमवतरति । कविचक्रललामैरन्ये के ग्रन्था गुम्फिता इति न सम्यग्जानीमहे । किंप्रयोजनकाः स्तुतय इति जिज्ञासायां तु प्रतिपादितमेव | भाष्ये तदवचूर्णौ च चैत्यवन्दनाया अङ्गत्वात् षोडशद्वारे 'चउरो थुई' इत्यत्र चतस्रः स्तुतयोऽत्र सम्पूर्णायां
Jain Educational
For Private & Personal Use Only
VINN
प्रस्तावना.
॥ १ ॥
www.jainelibrary.org