________________
प्रशस्तिः
सिरिसंतिनाहचरिए
-: प्रशस्तिः :प्राज्ञो गोत्राधिपत्वं रसभरविलसन्नन्दनारामरम्यः, सर्वस्याशाप्रकाशी सकलसुमनसा सेवनीयः सदैव । नानाकल्पागमानामुपचयजनको राजसम्मानभावं प्राप्तः श्रीधर्कटानां प्रकटितगरिमा वंशमेरुः समस्ति ॥१॥ सच्छायः सरसः सपत्रनिचयः शाखाप्रशाखांचितः, पीनस्कंधविराजितः प्रतिपदं सन्तापहारी सताम् । चिन्तागोचरचारिवस्तुविसर दातुं समर्थोऽर्थिनाम्, तत्राऽजायत कल्पपादपसमः श्रीजावड: श्रावकः ॥२॥ तस्याऽभवन्नखिलकल्मषदोषहीनास्तिस्रः प्रियास्त्रिपथगा इव पूरिताशाः । लोकत्रयप्रथितशीलयुतास्तथापि प्राप्ताः कदाचन न दीनपथातिथित्वम् ॥३॥ जिनदेवी बभूवाऽऽसामाद्या मधुरवादिनी । स्त्रैणोचितगुणोपेता जिनेन्द्रपदपूजिका ॥४॥ राकासुधारश्मिसमानशीला शुद्धाशया नन्दितदीनलोका । रूपश्रिया तर्जितकामकान्ता कान्ता द्वितीयाऽजनि सर्वदेवी ॥५॥
कुन्दावदातातिशीलशालिनी मातेव सर्वस्य जनस्य वत्सला।
पूर्णी तथा पूर्णमनोरथस्थितिः जाता तृतीया गृहिणी विवेकिनी ॥६॥ यः सर्वदा सर्वजनोपकारी गम्भीर-धीरो जिनधर्मकारी । तं दुर्लभं दुर्लभमल्यपुण्यैः प्रासूत तत्र प्रथमा तनूजं ॥७॥ सातौ भुवि विख्यातौ सर्वदेव्याः सुतावुभौ । उदयाचलचूलायाः सूर्या-चन्द्रमसाविव ॥८॥