________________
कल्प०
10000000000000000000000000000000000000000000000.0000
बहुमयाई अणुमयाई भवंति, तत्थ से नो कप्पइ अदक्खु वइत्तए “अस्थि ते आउसो इमं वा"
से किमाइभंते? सड़ी गिही गिण्हइ वा, तेणियंपि कुज्जा॥१९॥ वासावासं पज्जो निच्चभत्तियस्स ( बहुमयाई ) बहवोऽपि साधवः सम्मता येषां, अथवा बहूनां गृहमनुष्याणां साधवः सम्मता येषु तानि बहुमतानि ( अणुमयाई भवंति ) अनुमतानि दानं अनुज्ञातानि, अथवा अणुरपि क्षुल्लकोऽपि मतो येष सर्वसाधुसाधारणत्वान्न तु मुखं दृष्टा तिलकं कुर्वन्तीति अनुमतानि अणुमतानि वा भवन्ति ( तत्थ से नो कप्पइ अदक्ख वइत्तए ) तत्र तेषु गृहेषु से तस्य साधोः याच्यं वस्तु अदृष्ट्वा इति वक्तुं न कल्पते (अत्थि ते आउसो इमं वा ) यथा हे आयुष्मन् ! इदं वा वस्तु अस्ति, इत्यदृष्टं वस्तु प्रष्टुं न कल्पते इत्यर्थः (से किमाहु भंते ) तत् कुतो भगवन, इति शिष्यप्रश्ने गुरुराह-यतस्तथाविधः ( सड्डी गिही गिण्हइ वा तेणियंपि कुज्जा) श्रद्धावान् गृही मूल्येन गृह्णीत, यदि च मूल्येनापि न प्राप्नोति तदा स श्रद्धातिशयेन चौर्यमपि कुर्यात् , कृपणगृहे तु अदृष्टापि याचने न दोपः ॥ १९ ॥
( वासावासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( निच्चभत्तियस्स भिक्खुस्त ) नित्यमेकाशनकारिणः
10000000000000000000000000000000000000000000000000
Jain Education in Well
For Private Personal Use Only
Iw.jainelibrary.org