________________
कल्प०
॥ ३७२ ॥
Jain Education Inte
जात्र तच्चाओ पुरिसजुगाओ जुगंत चउवासपरियाए अंतमकासी ॥ १४६ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवासमज्झे वसित्ता, साइरेगाई दुवालस वासाई छउमत्थपरियागं पाउणित्ता,
विशेषास्तानि च क्रमवर्त्तीनि, तत्साधर्म्यद्ये कर्मवर्त्तिनो गुरुशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमिता अन्तद्भूमिर्या सा युगान्तकृद्भूमिः ॥ पर्यायः प्रभोः केवलित्वकालस्तं आश्रित्य अन्तकृद्भूमि: पर्यायान्तकृद्भूमिः, तत्राद्यां निर्दिशति ( जात्र तचाओ पुरिसजुगाओ जुगंतगडभूमी) इह पञ्चमी द्वितीयार्थे ततो यावत् तृतीयं पुरुष एव युगं | जम्बूस्वामिनं यावद् युगान्तकृद्भूमिः ( चउवासपरियाए अंतमकासी ) ज्ञानोत्पत्त्यपेक्षया चतुर्वर्षपर्याये च भगवति अन्तमकार्षीत् कश्चित् केवली मोक्षं अगमत् प्रभोर्ज्ञानानन्तरं चतुर्षु वर्षेषु मुक्तिमार्गो वहमानो जातो, जम्बूस्वामिनं यावच्च मुक्तिमार्गे वहमानः स्थित इति भावः ॥ १४६ ॥
( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः ( तीसं वासाई ) त्रिंशद्वर्षाणि ( अगारवासमझे वसित्ता ) गृहस्थावस्थामध्ये उषित्वा (साइरेगाई दुवालस वासाई ) समधिकानि द्वादश वर्षाणि (छउमत्थपरियागं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा
For Private & Personal Use Only
सुबो०
||३७२ ॥
3 t
jainelibrary.org