SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ करप. । सुयो। ॥३३३॥ 1000000000000000000000000000000000000000000000000000 सव्वलोए सव्वजीवाणं आगइं गई ठिई चवणं उबवायं तकं मणो माणसिअं भुत्तं कडं पडिसेवियं आवीकम्मं रहोकम्म-अरहा अरहस्स भागी तं तं कालं मणवयकायजोगे वट्टमाणाणं सव्वलोए जाणइ पासइ) पर्यायं इत्यत्र जातावेकवचनं, ततः पर्यायान् जानाति पश्यति च साक्षात् करोति, तर्हि किं देवमनजाऽसराणां एव पर्यायमानं जानातीत्याह-( सव्वलोए सव्वजीवाणं) सर्वलोके सर्वजीवानां (आगई गई ठिइं चवणं उबवायं ) आगतिं भवान्तरात्, गतिं च भवान्तरे, स्थिति तद्भवसत्कं आयुः कायस्थितिं वा, च्यवनं देवलोकात्तिर्यग्रेषु अवतरणं, उपपातो देवलोके नरकेषु वोत्पत्तिः (तकं मणो) तेषां सर्वजीवानां सम्बन्धि तत्कं, ईदृशं यन्मनः (माणसियं) मानसिकं, मनसि चिन्तितं (भुत्त) भुक्तं, अशनफलादि (कडं) कृतं, चौर्यादि (पडिसेवियं) प्रतिसेवितं, मैथुनादि (आविकम्म) आविःकर्म प्रकटकृतं (रहोकम्म) रहःकर्म प्रच्छन्नं कृतं, एतत् सर्व सर्वजीवानां भावान् जानातीति योजना, पुनः किं वि. प्रभः (अरहा) न विद्यते रहः प्रच्छन्नं यस्य, त्रिभुवनस्य करामलकवद् दृष्टत्वात् अरहाः (अरहस्स भागी) रहस्यं एकान्तं तन्न भजते इति, (तंतं कालं मणवयकायजोगे) तस्मिन् तस्मिन् काले मनोवचनकाययोगेषु यथार्ह (वट्टमाणाणं) वर्तमानानां (सब्बलोए सव्वजीवाण) 0000000000000000000000000000004 ||३३३॥ Booloo00000000 in Education in For Private Personel Use Only १w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy