SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ कल्प० सुबो. ॥२५६॥ 100000000000000000000000०००००००००००००००००००००००००००० ठिइवडियं करेंति, तइए दिवसे चंदसूरदंसणिअं करेंति, छठे दिवसे धम्मजागरियं जागरेल्ति, मातापितरौ प्रथमे दिवसे ( ठिइवडियं करेंति ) स्थितिपतितां कुरुतः (तइए दिवसे चंदसूरदसणियं करेंति) तृतीये दिवसे चन्द्रसूर्यदर्शनिकां उत्सवविशेषं कुरुतः, तहिधिश्वायं--जन्मदिनादिनद्वयातिक्रमे गृहस्थगुरुरर्हत्प्रतिमाग्रे रूप्यमयीं चन्द्रमति प्रतिष्ठाप्य अर्चित्वा विधिना स्थापयेत् , ततः स्नातां सुवस्त्राभरणां सपुत्रां मातरं चन्द्रोदये प्रत्यक्षं चन्द्रसन्मुखं नीत्वा · आँ अर्ह चन्द्रोऽसि, निशाकरोऽसि, नक्षत्रपतिरसि, सुधाकरोऽसि, औषधीगर्भोऽसि, अस्य कुलस्य वृद्धिं कुरु कुरु स्वाहा' इत्यादिचन्द्रमन्त्रमुच्चारयंश्चन्द्रं दर्शयेत् , सपुत्रा माता |च गुरुं प्रणमति, गुरुश्चाशीर्वादं दत्ते, सचायं-सर्वोधीमिश्रमरीचिराजिः। सर्वापदां संहरणप्रवीणः ॥ करोतु वृद्धिं सकलेऽपि वंशे । युष्माकमिन्दुः सततं प्रसन्नः ॥ १॥ एवं सूर्यस्यापि दर्शनं, नवरं मूर्तिः स्वर्णमयी ताम्रमयी वा, मन्त्रश्च-'आँ अर्ह सूर्योऽसि, दिनकरोऽसि, तमोऽपहोऽसि, सहस्रकिरणोऽसि, जगच्चक्षुरसि प्रसीद' ॥ आशीर्वादश्चायं-सर्वसुरासुरवन्द्यः । कारयिताऽपूर्वसर्वकार्याणाम् ॥ भूयात्रिजगच्चक्षु-मङ्गलदस्ते सपुत्रायाः ॥१॥ इति चन्द्रसूर्यदर्शनविधिः। साम्प्रतं च तत्स्थाने शिशोर्दर्पणो दर्श्यते ॥ (छठे दिवसे धम्मजागरियं जागरोन्ति) 0000000000000000000000000000000000000000000000 ॥२५६॥ Jain Education Intel For Private & Personal Use Only SHjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy