________________
कल्प ●
॥२३४॥
Jain Education Inte
10000000
जइएस सव्वसउणेसु, पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पवार्यसि, निष्फन्नमेइणीयं सि कालंसि, पमुइयपक्कीलिएसु जणवएसु, पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागणं आरोग्गारोग्गं दारयं पयाया ।। ९६ ॥
भावात्, (जइएस सव्वसउणेसु) सर्वेषु शकुनेषु काकोलूकदुर्गादिषु जयिकेषु जयकारकेषु सत्सु (पयाहिणाणुकूलंसि) प्रदक्षिणे प्रदक्षिणावर्त्तत्वात्, अनुकुले शीतत्वात् सुखप्रदे ( भूमिसप्पंसि ) मृदुत्वात् भूमिसर्पण, प्रचण्ड हि वायुः उच्चैः सर्पति, एवंविधे ( मारुअंसि) मारुते वायौ ( पत्रायंसि ) प्रवातुं आरब्धे सति (निष्फण्णमेइणीयंसि कालंसि ) निष्पन्ना, कोऽर्थः - निष्पन्नसर्वशस्या मेदिनी यत्र एवंविधे काले सति ( पमुइअपक्कीलिएस जणवएस) प्रमुदितेषु सुभिक्षादिना, प्रक्रीडितेषु प्रक्रीडितुं आरब्धेषु वसन्तोत्सवादिना, एवंविधेषु जनपदेषु जनपदवासिषु लोकेषु सत्सु ( पुव्त्ररत्तावरत्तकालसमयंसि ) पूर्वरात्रापररात्रकालसमये (हत्थुत्तराहिं नखत्तेणं चंदेणं जोगमुवागणं ) उत्तरफाल्गुनीभिः समं योगं उपागते चन्द्रे सति ( आरोग्गारोग्गं ) आरोग्या आबाधारहिता सा त्रिशला, आरोग्यं आबाधारहितं ( दारयं पयाया ) दारकं पुत्रं प्रजाता सुषुवे इतिभावः ॥ ९६ ॥
For Private & Personal Use Only
सुबो•
॥२३४॥
૧૯)
v.jainelibrary.org.