________________
श्रीकल्प
किरणावल टीका व्या०९
॥३८६॥
भणिभं-तदिवस मम लोगाणुव(वि)त्तीए इंदो अणुजाए(णे)अव्यो होहि ति साहू चेईए अ ण पज्जुवासेस्सं तो छट्ठीए पज्जी- सवणा किजउ । आयरिएहि भणि-ण वट्टति अतिक्कमिउं । ताहे रण्णा भणि-ता अणागयचउत्थीए पज्जोसविज्जति । आयरिएहिं भणिअं-एवं भवतु । ताहे चउत्थीए पज्जोसविरं । एवं जुगप्पहाणेहिं कारणे चउत्थी पवत्तिा , सा चेव अणुमया सब्बसाहूणं इत्यादि । श्रीनिशीथचूणि दशमोद्देशके। तथा तत्रैव कषायविषये-'गच्छो अ दुन्निमासे' इत्यादि गाथाव्याख्याने-'भद्दवयमुद्धपंचमीए अधिकरणे उप्पण्णे संवच्छरो भवइ, छट्टीए एगदिणूणो संवच्छरो भवति । एवमिक्किक्कदिणं परिहरंतेण ताव आणेअव्वं जाव ठवणदिणु'त्ति । एवम् अन्यधपि ग्रन्थेषु यत्र क्वापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव । आस्तामन्यः श्रावणिकसगोत्र: सन्देहविषौषधीकारोऽपि कल्याणकादिषु स्वमतं पोषयन्नपि पर्युषणापर्व तु भाद्रपदविशेषितमेवोक्तवान् , न पुनः क्वापि केनाप्यभिवद्धितमासे श्रावणविशेषितं । सर्वसाधुसर्वचैत्यवन्दना-आलोचना-अष्टमतपःलोच-वार्षिकप्रतिक्रमणविशिष्टं पर्युषणापर्व, प्रतिपादितं ।
यत्तु कश्चित्-किमधिकमासः काकेन भक्षितः ? किं वा तस्मिन् मासि पातकं न भवति ? उत बुभुक्षादिकं न लगति ? इत्याधुपहास्यवाक् भवति, स हि यक्षावेशोज्झितवसनोऽपि अलकृत पुरुष प्रति उपहसन्निवागन्तव्यः। कथमन्यथा पञ्चभिर्मासैः चतुर्मासं त्रयोदशभिश्च द्वादशमासात्मकं संवत्सरम् , अभिवदितवर्षे अवाणोऽपि इत्थमकथयिष्यत् ? । ननु सर्वत्राऽप्यागमे-'चउण्हं मासाणं, अढण्हं पक्खाणं' इत्यादि । तथा-'बारसह मासाणं, चउवीमण्हं पक्खाणं' इत्यादि-पाठ एवोपलभ्यते । न पुनः तत्स्थाने क्यापि-'पंचण्डं मासाणं, दसहं पक्खाणं, पंचासुत्तरसयराइंदियाणं' इत्यादि । तथा
DAURABHARA
| ॥३८६॥
JainEducebdanational
For Privale & Personal Use Only
Sarabrary.org