________________
तीर्थकरा हि भगवन्तः पुरुषोत्तमा एव भवंति, अत्रावसर्पिण्यां च मिथिलापतिकुम्भराजस्य पुत्री मल्लिनानी एकोनविंशतितमजिनत्वेनोत्पन्ना तीर्थ प्रवर्तितवतीति आश्चर्य (३) 'अभाविया परिस'त्ति अभाविता पर्षद भगवतो हि देशना कदापि निष्फला न भवति, अत्र च समुत्पन्नकेवलेन श्रीवर्धमानखामिना प्रथमसमवसरण एव देशना दत्ता, न च तया कस्यापि विरतिपरिणामोजात इत्याश्चर्य (४) 'कण्हस्स'त्ति कृष्णस्यनवमवासुदेवस्य द्रौपदीनिमित्तं अपरकङ्कागमनं आश्चर्य, तञ्चैवं-पुरा किल पाण्डवभार्यया द्रौपद्या असंयतत्वान्नारदस्य अभ्युत्थानादि न कृतं, तेन च रुष्टेन तस्याः कष्टे पातनार्थं धातकीखण्डभरते अपरक
राजधानीप्रभोः पयोत्तरस्य स्त्रीलुब्धस्य पुरतो रूपवर्णनं कृतं, तेनापि खमित्रदेवेन द्रौपदी खगृहं आना-19 यिता, इतश्च पाण्डवमात्रा कुन्त्या विज्ञपितेन कृष्णेन द्रौपदीगवेषणव्यग्रेण नारदमुखादेव स समाचारो |लब्धः, ततः सोऽपि आराधितसुस्थितदेवताप्रदत्तमार्गो द्विलक्षयोजनायाम लवणसमुद्रं अतिक्रम्य अपरकां गतः, तत्र च तर्जितपाण्डवं पद्मोत्तरं नरसिंहरूपकरणेन विजित्य द्रौपदीवचसा जीवन्तं मुक्त्वा च द्रौपद्या | सह पश्चादलितः, वलमानश्च शङ्ख आपूरितवान् , तच्छब्दं श्रुत्वा च तत्र विहरमानमुनिसुव्रतजिनवचनेन | कृष्णं आगतं ज्ञात्वा मिलनोत्सुकः कपिलवासुदेवोऽपि जलधितटमुपेत्य शडं आपूरितवान् , ततो मिथ:
शङ्खशब्दौ मिलितो, ततोऽस्यां अवसर्पिण्यां कृष्णस्य अपरकङ्कागमनं आश्चर्य (५)'अवयरणं चंदसूराणं'ति लायत् कौशाम्ब्यां भगवतः श्रीवर्धमानखामिनो वन्दनार्थ मलविमानेन सूर्याचन्द्रमसौ उत्तीर्णो तदाश्चर्य (६)
यिता, इतश्च मारुप आराधितस्थितदेवतमहरूपकरणेन विजित्य द्रौपदीवत्र बिहरमानमुनिसुत्रतता मिथः
900ROMOTOROGRA9900202929
कल्प
.सु.५
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org