SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ क. सु. ३० तथाऽत्रापि, एवं तर्हि अप्रमाणे मासे देवपूजामुनिदानावश्यकादि कार्यमपि न कार्य इत्यपि वक्तुं माऽधरौष्ठं चपलेय, यतो यानि हि दिनप्रतिबद्धानि देवपूजामुनिदानादिकृत्यानि तानि तु प्रतिदिनं कर्त्तव्यान्येव, यानि च सन्ध्यादिसमयप्रतिबद्धानि आवश्यकादीनि तान्यपि यं कश्चन सन्ध्यादिसमयं प्राप्य कर्त्तव्यान्येव, यानि तु भाद्रपदादिमासप्रतिबद्धानि तानि तु तद्वयसम्भवे कस्मिन् क्रियते इति विचारे प्रथमं अवगणय्य द्वितीये क्रियते इति सम्यग् विचारय ॥ तथा च पश्य अचेतना वनस्पतयोऽपि अधिकमासं नाङ्गीकुर्वते, येनाधिकमासे प्रथमं परित्यज्य द्वितीय एव मासे पुष्प्यन्ति, यदुक्तं आवश्यकनिर्युक्तौ - "जइ फुल्ला कणिआरडा चूअग! अहिमासयंमि घुमि । तुह न खमं फुल्लेडं जड़ पचंता करिति डमराई ॥ १ ॥" तथा च कश्चित् ' अभिवड्डि मि वीसा इअरेसु सवी सई मासे' इति वचनबलेन मासाभिवृद्धौ विंशत्या दिनैरेव लोचादिकृत्यविशिष्टां पर्युषणां करोति, तदप्ययुक्तं, येन 'अभिवडिअंमि वीसा' इति वचनं गृहिज्ञातमात्रापेक्षया, अन्यथा 'आसाढ पुण्णिमासीए पजोसविंति एस उस्सग्गो, सेसकालं पज्जोसविताणं अववाउ'त्ति श्रीनिशीथचूर्णिदशमोद्देशकवचनादाषाढपूर्णिमायामेव लोचादिकृत्यविशिष्टा पर्युषणा कर्त्तव्या स्यात् इत्यलं प्रसङ्गेन ॥ तत्र कल्पोक्ता द्रव्य १ क्षेत्र २काल ३ भाव ४ स्थापना चैवं द्रव्यस्थापना तृणडगलछारमल्लकादीनां परिभोगः सचित्तादीनां च परिहारः, तत्र सचित्तद्रव्यं शैक्षो न प्रव्राज्यते अतिश्रद्धं राजानं राजामात्यं च विना, अचित्तद्रव्यं च वस्त्रादि न गृह्यते, १ किं तिथिवृद्धौ नोत्तरतिथौ पापं ?, विचारय । २ यदि पुष्पिताः कणवीराः चूत ! अधिकमासे घुष्टे । तव न क्षमं पुष्पितुं यदि प्रत्यंताः कुर्वन्ति डमरादि ॥ Jain Education International For Private & Personal Use Only मासवृद्धि चर्चा कल्पव्यवस्था सू. ८ १० १३ www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy