________________
एवं संवच्छरे दिन्नं ॥१॥ तथा च कवयः-तत्तद्वार्षिकदानवर्षविरमदारिद्यदावानला:, सद्यः सजितवाजिरा-IST दीक्षाभिषेजिवसनालङ्कारदुर्लक्ष्यभाः। सम्प्राप्ताः खगृहेऽर्थिनःसशपथं,प्रत्याययन्तोऽगनाः, खामिन् ! षिड्गजनैर्निरुद्धह-कासू.११३ सितैः के यूयमित्यूचिरे ॥१॥ एवं च दानं दत्त्वा पुनर्भगवता नन्दिवर्धन: पृष्टः-राजंस्तव सत्कोऽपि अवधिः पूर्णस्तदहं दीक्षां गृह्णामि, ततो नन्दिनाऽपि ध्वजहदालङ्कारतोरणादिभिः कुण्डपुरं सुरलोकसमं कृतं, ततो नन्दिराजः शक्रादयश्च कनकमयान् १ रूप्यमयान् २ मणिमयान् ३ कनकरूप्यमयान् ४ कनकमणिमयान ५ रूप्यमणिमयान् ६ कनकरूप्यमणिमयान् ७ मृन्मयांश्च ८ प्रत्येकं अष्टोत्तरसहस्रं कलशान् यावत् अन्यामपि च सकलां सामग्री कारयन्ति, ततोऽच्युतेन्द्राद्यैश्चतुःषष्टया सुरेन्द्ररैभिषेके कृते सुरकृताः कलशा दिव्यानुभावेन नृपकारितकलशेषु प्रविष्टास्ततस्तेऽत्यन्तं शोभितवन्तः, ततः श्रीनन्दिराजः खामिनं पूर्वाभिमुखं निवेश्य सुरानीतक्षीरोदनीरैः सर्वतीर्थमृत्तिकादिभिः सर्वकषायैश्चाभिषेकं करोति, इन्द्राश्च सर्वेऽपि भृङ्गादिर्शादिहस्ता जयजयशब्दं प्रयुञानाः पुरतस्तिष्ठन्ति, ततश्च भगवान् स्नातो गन्धकाषाय्या रूक्षिताङ्गः सुरचन्दनानुलिप्तगात्रः कल्ततरुपुष्पमालामनोहरकण्ठपीठः कनकखचिर्ताञ्चलस्वच्छोज्वललक्षमूल्यसदशश्वेतवस्त्रावृतशरीरो हारविरा- जद्वक्षःस्थलः केयूरकटकमण्डितभुजः कुण्डलल लितगल्लतलः श्रीनन्दिराजकारितां पश्चाशद्धनुरायतां पञ्चविंशतिधनुर्विस्तीर्णा षट्त्रिंशद्धनुरुच्चा बहुस्तम्भशतसंनिविष्टां मणिकनकविचित्रां दिव्यानुभावतः सुरकृततादृक-1 शिविकामनुप्रविष्टां चन्द्रप्रभाभिधां शिबिकां आरूढो दीक्षाग्रहणार्थ प्रतस्थे, शेषं सूत्रकृत् वयं वक्ष्यति ।
४
Jain Educationalai
For Private & Personel Use Only
Q
w.jainelibrary.org