________________
१०४
हत्पतिमाग्रे रूप्यमयीं चन्द्रमत्ति प्रतिष्ठाप्य अर्चिवा विधिना स्थापयेत्, ततः स्नातां सुवस्त्राभरणां सपुत्रांदशाहिकी मांतरं चन्द्रोदये प्रत्यक्ष चन्द्रसन्मुखं नीवाओं अहं चन्द्रोऽसि निशाकरोऽसि नक्षत्रपतिरसि सुधाकरो- मर्यादा मू, सि औषधीगर्भोऽसि अस्य कुलस्य वृद्धिं कुरु कुरु स्वाहा' इत्यादिचन्द्रमन्त्रमुच्चारयंश्चन्द्र दर्शयेत् , सपुत्रा | |माता च गुरुं प्रणमति, गुरुश्चाशीर्वादं ददाति,सचायं-सर्वोषधीमिश्रमरीचिराजिः, सर्वापदां संहरणप्रवीणः। करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः॥१॥ एवं सूर्यस्यापि दर्शनं, नवरं मूर्तिः वर्णमयी| ताम्रमयी वा, मन्त्रश्च-औं अहं सूर्योऽसि दिनकरोऽसि तमोऽपहोऽसि सहस्रकिरणोऽसि जगच्चक्षुरसि प्रसीद' आशीर्वादश्चायं-सर्वसुरासुरवन्धःकारयिताऽपूर्वसर्वकार्याणाम् । भूयात्रिजगचक्षुमङ्गलदस्ते सपु-I त्रायाः॥१॥ इति चन्द्रसूर्यदर्शनविधिः, साम्प्रतं च तत्स्थाने शिशोदर्पणो दश्यते ॥ (छठे दिवसे धम्मजागरियं जागरेन्ति ) ततः षष्ठे दिवसे'धम्मजागरियं ति धर्मेण-कुलधर्मेण षष्ठ्या रात्री जागरणं धर्मजागरिका तां जागृतः, षष्ठे दिने जागरणमहोत्सवं कुरुत इति भावः, एवं च (एक्कारसमे दिवसे वइकंते) एकादशे| दिवसे व्यतिक्रान्ते सति (निव्वत्तिए असुइजम्मकम्मकरणे) अशुचीनां-जन्मकर्मणां-नालच्छेदादीनां करणे निवर्तिते-समापिते सति (संपत्ते बारसाहे दिवसे) द्वादशे च दिवसे सम्प्राप्ते सति भगवन्मातापितरौ (विउलं असणं पाणं खाइम साइमं वक्खडाविति) विपुलं-बहु अशनं पानं खादिमं खादिमंच उपस्कारयत:-प्रगुणीकारयत: (उवक्खडावित्ता) उपस्कारयित्वा च (मित्तनाइनियगसयणसंबंधिपरिजणं) मित्राणि
कल्प.सु. १५
Jain Education International
For Private & Personel Use Only
Maw.jainelibrary.org