SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ S नमः श्रीगणधरेन्द्राय. श्रीकल्पसूत्रस्य प्रथमसंस्करणस्योपोद्घातः । ACARRISHISHESANSACREDCROSSANSEX समादीयतां सज्जनमनश्चमत्कृतिकारकपवित्रचारित्रैः सुमनोभिः सुमनस्ततिनतचरणसरोजैनिर्णाशिताशेषसत्त्वसार्थतत्त्वविचारविलोपकदोषपोषोदयैः षष्ठपट्टपूर्वाचलार्यमभिः श्रुतकेवलिभिः श्रीमद्भिर्भगवद्भिर्भद्रबाहुस्वामिभिः प्रागपि प्रतिपर्युषणं कर्षणीयं ६ कृष्टकषायवीजैराजवंजवीभावविभावनभग्नसंसारवासनैमुनिमतल्लिकाभिः कल्पाय मङ्गलाय चोद्धृत्यात्मप्रवादनावाप्तयथार्थनाम्न आत्मप्रवादादैदंयुगीनाल्पमेधआयुर्धारणादिगुणात्मार्थिजनानूनकल्याणकोटिकल्पनालम्भविष्णु कल्पसूत्रणसूत्रधारायमाणं श्रीकल्प है सूत्रं दशाश्रुतस्कन्धलक्षणच्छेदसूत्राष्टमाध्ययनतया न्यासीकृतं, पुत्रमृतिजव्याधिविकर्त्तितशुभसङ्कल्पेन ध्रुवसेननृपेणानन्दपुरे समहं | सभासमक्षं वाचयितुमारब्धं, तदनु सङ्घसमक्षमनुसंवत्सरमर्वाक् साँवत्सरिकप्रतिक्रमणात् पञ्चभिरहोभिः कर्षणीयं कर्मततिकपगकल्पनातीतसामर्थ्यम् । तत्र प्रथमं वाच्यं जिनचरिताख्यं द्विशत्या साष्टाविंशया, द्वितीयं स्थविरावलीलक्षणं त्रयस्त्रिंशत आचार्याणां परम्पराप्रविष्टानां सूत्राणामेकषष्ट्या, सामाचारी तु चातुर्मासीकल्पानुशीलनीया निर्ग्रन्थानां निर्ग्रन्थीनां च तृतीयवाच्यत्वेनाभिमता सूत्रचतुःषष्ट्या सूत्रितेति देवगुरुधर्मविषयकशुभभावनाप्रकर्षोत्पादकतवर्णनास्वरूपोपलम्भाविगीतपुरुषपरम्परोद्गीतकल्पनातिगमोक्षफलसम्पादनक्षमा कल्पपादपोपमानताऽस्य नातिशयोक्तिमङ्गीकरोति । तदेवमवश्यप्रादुर्भावनीयस्यास्य प्रादुर्भावे यद्यपि दृष्टचरा Jain Education Intem For Private Personel Use Only www.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy