________________ 5 मिती युक्तिः // 9 // 'आवस्सगस्स' दसकालियस्स, तह उत्तरज्झ-मायारे' इत्येवमादि / अत्र शैली त्यक्त्वा पञ्चम्या निर्देशं कुर्वन्नाचार्य || यथाक्रमएतज्ज्ञापयति-सन्त्यन्येऽप्यनुयोगा इति, तदत्राह चरणकरणानुयोगाद्वक्ष्ये नान्यानुयोगेभ्य इति, षष्ठी भेदाभेदाद द्विधा यथा || मनुयोगानां देवदत्तस्य गृह', तैलस्य धारेति, तद्यदि षष्ठथा उपन्यासः क्रियते ततो न ज्ञायते चरणकरणानुयोगस्य भिन्नामभि- महर्द्धिकता। नामोनियुक्तिं वक्ष्ये, इति व्यामोहनिवृत्त्यर्थ पञ्चम्युपन्यासः, अस्तीत्यव्ययं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु समम् // 6 // अनुयोगसङ्ख्यामाह चत्तारि उ अणुओगा, चरणे धम्म-गणियाणुओगे य। दवियणुजोग य तहा, अहक्कमं ते महिइढिया // 7 // (भा० 5) चत्वारोऽनुयोगाः, तुशब्दात् द्वौ च पृथक्त्वापृथक्त्वभेदात् , 'चरणे उत्तरपदलोपादित्थमुपन्यासश्चरणकरणानुयोग इत्येवं वाच्यं, स चैकादशाङ्गरूपः, धर्मानुयोग उत्तराध्ययनप्रकीर्णकरूपः, (गणितानुयोगः सूर्यप्रज्ञप्यादिरूपः) चशब्दः प्रत्येकमनुयोग(पद)समुच्चायकः, द्रव्यानुयोगः सदसपर्यालोचनारूपः स च दृष्टिवादः, चशब्दादनार्षः सम्मत्यादिरूपश्च, यथाक्रमं ते महर्दिकाः-प्रधानाः / एवं व्याख्याते सत्याह परः,चरणपदं मिन्नया विभक्त्या किमर्थमुपन्यस्तं ? धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनव्यानुयोगो भिन्नया, तथानुयोगशब्द एक एवोपन्यसनीयः, किमर्थ // 9 // 1 आव० नि० पत्र 61, गाथा 84-85. Intemational For Prvale & Personal use only www.nebrary.org