________________
Jain Education
90099905
अथ यतिधर्ममाश्रित्यैषैव चतुर्भङ्गी विभाव्यते - कश्चिद् यतिधर्मः साटोपः तीव्रतपोऽनुष्ठानादिमत्वेन सद्यो महार्द्धत्यागादिलिङ्गमहासत्त्वाङ्गीकृतत्वेन च सुराणामपि विस्मयकरत्वात्, परमल्पगुणः क्रोधमत्सराविधिगुरुदेवाज्ञाविराधकत्वादिभिः कलुषितत्वात्; यथा नदीकूले तीव्रं तपस्यतः कूलवालकमुनेः । तस्य खलु तादृगपि तपो गुर्वाज्ञाविराधकत्वेन निष्फलमभूत् । यदुक्तम् - छठ्ठमद समदुवाल सेहिँ मासद्धमासखमणेहिं । अकरंतो गुरुवयणं, अनंतसंसारिओ होइ ॥ १ ॥ कश्चिद् यतिधर्मः पुनः साटोपः प्रागुक्तहेतोः, बहुफलश्च प्रमादादिमलविकलत्वेन; यथा सनत्कुमारचक्रि - धन्य - शालिभद्रादिमहर्षीणाम् । कश्चित्तु यतिधर्मस्तथाविधतपः कष्टादिविरहितत्वेनानाटोपः अल्पफलश्च सम्प्रतिनृपपूर्वभवद्रम कर्ष्यादिवत् । अपरः पुनरनाटोपोऽपि महाफलः, कूरगडूकमुनेरिवेति । यद्वा विद्यामन्त्रादिसिद्धि-विविधलब्धि-सुरनरेन्द्रसेव्यत्व - राजपूज्यत्वादिभिः साटोपता यतिधर्मस्य, अल्पगुणता तु प्रमादादिभिस्तस्य कलुषीकरणात् । दृष्टान्ता मथुरामङ्गवाचार्याः प्रथमभङ्गे, श्रीवत्रस्वाम्यादयो द्वितीयभङ्गे, अग्रेतनभङ्गद्वयदृष्टान्ताः स्पष्टा इति । अथवा मिथ्यात्वानुगतस्तीर्थॐ यात्रादिर्धर्मः साटोपोऽल्पगुणश्च यथा सेचनकगजप्राग्भवविप्रस्य लक्षभोज्यादिर्धर्मः। जैनतीर्थयात्रादिधर्मस्तु साटोपो बहुगुणश्च यथा श्रीभरतादीनाम् ॥ सन्ध्यावन्दनादिर्मिथ्यादृगभिमतो धर्मोऽनाटोपोऽल्पफलश्च । सामायिकादिधर्मस्तु जैनोनाटोपो महाफलश्च दृष्टान्ताः प्रागत्र च स्वयं योज्याः ।
धर्मस्येति चतुर्भङ्गी-मौषधीयनिदर्शनात् । मत्वोद्यच्छत शुद्धेऽस्मिन्, भव्या ! भवजयश्रिये ॥ १ ॥ ॥ इति तपागच्छेश श्री मुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे तुर्येऽंशेऽष्टमस्तरङ्गः ॥
For Private & Personal Use Only
90৫35999999694
w.jainelibrary.org