________________
परिशि.१२
शानसागर,
गअन्त्यभागः
उत्तरा०18 नाम प्रसिद्धम् , इतश्च कोणिकेन हल्लविहल्लबैरेग चेटकनगरी वैशाली वेष्टिता, "समणे जब कूलपालए, मागहियं गणियं लहिस्सए। अवचूर्णिः | गया य असोगचंदए, वेसालि नयरि गहिस्सए ॥१॥ इत्याकाशवचः श्रुत्वा वेश्याकपटानीतः कूलबालकः स्तूपपातनभाषणेन
दुर्गतिं गतः ॥ ३ ॥ कूलवालदृष्टान्तानन्तरं दुर्विनोतत्वे दोषमाह-यथेत्युपदशने शुनी पूती-परिपाकतः क्वचित् गन्धौ को यस्याः ॥ ३९३ " सा कोटाकुला निष्कास्यते-निर्वास्यते सर्वतो गृहादिभ्यः, एवं-अमुना प्रकारेण दुःशोलेन-दुष्टाचारेण प्रत्यनोकः-प्रतिकलः, मुखमेव
दुष्टवचसा क्रूरभाषी अरिः-शत्रुर्यस्य गुखारिः निष्कास्यते ॥ ४॥ आहैवं किमसौ प्रवर्तते ? उच्यते, अपायोपहतमतित्वेन, तत्र दृष्टान्तमाह-कणास्तन्दुलास्तन्मित्रं क्षीरकुण्डकमित्यर्थः, त्यक्त्वा विष्टां-पुरी भुजते शुकरः, एवं-दृष्टान्तेन शीलं-शोभनाचारं त्यक्त्वा
दुःशीले-दुष्टाचारे रमते मृग इव मृगः मरणेऽपि नादविकलः ॥ ५ ।। उक्तोपसंहारपूर्वकं कर्तव्योपदेशमाहR. श्रुत्वा कर्ण भावं निष्काशनरूपं शून्या इव शूकरोपमस्य नरस्य च विनये स्थापयेत् आत्मानं इच्छन्-वाञ्छन् हितमात्मनः ॥६॥
यतश्चैवं ततः किमित्याह-कर्तव्यमेव दृढयति-तस्मात्कारणाद्विनयमेषयेदनेकार्थत्वात्कुर्यात् , शोलं-शुद्धाचारं प्रतिलभेत्-प्राप्नुयात् , यतः बुद्धादीनां-आचार्यादीनां पुत्र इव पुत्रः नियागः-मोक्षस्तदर्थी न निष्कास्यते कुतश्चिद्गणादेः ॥ ७॥ कथं पुनर्विनय एषयितव्य इत्याह-नितरां शान्तः स्यात् , मुखरी-वाचालः, आचार्याणामन्तिके-समीपे सदा अर्थयुक्तानि-हेयोपादेयादिवाचकानि आगमवचांसि शिक्षेत-अभ्यसेत् , निरर्थकानि-भक्तस्त्रीदेशराजकथादीनि च वर्जयेत् ॥ ८॥ निशान्तलक्षणमाह-कथं शिक्षेताह च-अनुशासितः-दत्तशिक्षः न कुप्येत, क्षमा सेवेत पण्डितः, क्षुद्रैः बालैः-शीलहीनैः सह संसर्ग हास्यं क्रीडां च वजयेत् ॥ ९॥प्रकारान्तरेण विनयं निशान्तत्वे निषिद्धं चाह-मा-निषेधे च-पुनः चण्डात् कोपादलीकं मृषा चण्डालयोनिभवं कर्म वा मा कार्षीः, बहुकं
॥३
Jain Education
For Private & Personal use only
ainelibrary.org