SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ HoXXXXXXXXXXX इत्थं केशिनाभिहिते गौतमवचोऽभिधायक केसि एवं बुवाणं तु, गोयमो इणमब्बवी। विन्नाणेण समागम्म, धम्मसाहणमिच्छयं ॥ ८६२॥ __ केसिमित्यादिगाथात्रयं, विज्ञानेन-केवलेन समागम्य यद्यस्योचितं तत्तथैव ज्ञात्वा धर्मसाधनं-धर्मोपकरणं वर्षाकल्पादि | इष्ट-अनुमतं, पार्श्ववीराभ्यां इति प्रक्रमः, वीरशिष्याणां हि रक्तादिवस्त्रानुज्ञाने वक्रजडत्वेन वस्त्ररञ्जनादिषु प्रवृत्तिरतिदुर्निवारैव स्यादिति तेन न तदनुज्ञातं, पार्थशिष्यास्तु न तथेति रक्तादीनामपि तेनानुज्ञातमिति भावः॥ ३१ ॥ ८६२॥ पञ्चयत्थं च लोगस्स, नाणाविहविकप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओअणं ॥ ८६३॥ किञ्च-प्रत्ययार्थ च-प्रतीतिनिमित्तं लोकस्य, अन्यथा विडम्बकादयोऽपि पूजाद्यर्थ वयं वतिन इत्यभिदधीरन् , ततो व्रति|ष्वपि न लोकस्य वतिन इति प्रतीतिः स्यात् , अतो नानाविधविकल्पनं, प्रक्रमात् नानाप्रकारोपकरणपरिकल्पनं, तदर्थं च कथश्चित् चित्तविप्लवो, नानाविधं हि वर्षाकल्पाद्यपकरणं यथावधतिष्वेव सम्भवतीति कथं न तत्प्रत्ययहेतुः स्यात् , तथा यात्रासंयमनिर्वाहस्तदर्थ, विना हि वर्षाकल्पादिकं वृश्यादौ संयमवाधैव स्यादिति, ग्रहणं-ज्ञानं तदर्थं च, कथञ्चित् चित्तविप्लवोत्यत्तावपि गृह्णातु-यथाऽहं व्रतीत्येतदर्थं, लोके लिङ्गस्य-वेषधारणस्य प्रयोजनं-प्रवर्त्तनं लिङ्गप्रयोजनम् ॥ ३२ ॥ ८६३ ॥ अ(प्र० इ)ह भवे पइन्ना उ, मुक्खसम्भूयसाहणा । नाणं च दंसणं चेव, चरित्तं चेव निच्छए ॥ ८६४॥ अथेत्युपन्यासे-एवार्थस्य तोः भिन्नक्रमत्वात् भवेदेव, प्रतिज्ञा-अभ्युपगमः प्रक्रमात् पार्श्ववीरयोः, प्रतिज्ञास्वरूपमाह वर्षाकल्पादिरूपलिङ्गे प्रश्नः २ Jain Education Cational For Privale & Personal use only X w.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy