________________
सुशीला, चारु प्रेक्षितुं-अवलोकितुं शीलमस्याः सा चारुप्रेक्षिणी, नाधोदृष्टितादिदोषदुष्टा इत्यर्थः, विशेषेण द्योतते-दीप्यत | इति विद्युत् सा चासौ सौदामिनी च-तद्वत् प्रभा यस्याः सा विद्युत्सौदामिनीप्रभा॥७॥ ७८९ ॥
अथ याञ्चानन्तरमाह
अहाह जणओ तीसे, वासुदेवं महड्डियं । इहागच्छउ कुमरो, जा से कन्नं ददामहं ।। ७९० ॥ जनकस्तस्या राजीमत्याः, इहागच्छतु, सुब्व्यत्ययात् येन तस्मै ददामि-विधिनोपढौकयाम्यहम् ॥८॥७९० ॥ एवं च प्रतिपन्नायामुग्रसेनेन राजीमत्यामासन्नेन च क्रौष्टिक्यादिष्टे विवाहलग्ने यदभूत्तदाह
सहोसहीहिं पहविहो, कयकोऊयमंगलो। दिवजुयलपरिहिओ, आभरणेहिं विभूसिओ॥ ७९१ ॥ सर्वोपधिभिः-जयाविजयर्द्धिवृद्ध्यादिभिः स्वपितः-अभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र कौतुकानि-ललाटमुशलस्पर्शनादीनि मङ्गलानि-दध्यक्षतर्वाचन्दनवन्दनादीनि, सूत्रत्वात्परिहितं दिव्यं युगलमिति प्रस्तावाद्दष्ययुगलं येन स परिहितदिव्ययुगलः ॥९॥ ७९१॥
मत्तं च गंधहत्थि च, वासुदेवस्स जिट्ठयं । आरुढो सोहई अहियं, सिरे चूडामणी जहा ॥ ७९२॥ वासुदेवस्य सम्बन्धिनमिति गम्यं, ज्येष्ठमेव ज्येष्ठकमिति प्रशस्यं वृद्धं वा गुणः, पट्टहस्तिनमित्यर्थः, शोभते इति वर्तमान| निर्देशस्तत्कालापेक्षया, शिरसि चूडामणि-शिरोऽलङ्काररत्नं यथा ॥ १०॥ ७९२ ॥
अह ऊसिएण छत्तण, चामराहि य सोहिओ। दसारचक्केण तओ, सबओ परिवारिए ॥ ७९३ ॥
XXXXXXXXXXXXX
विवाहार्थोपक्रमः
Jain Education
For Privale & Personal use only
ainelibrary.org