________________
उत्तराध्य.
क्षुल्लकनिIन्थीयम्.
बृहद्धृत्तिः
॥२६॥
पतन्तं त्रायत इति पत्रं-पक्षसञ्चयं 'समादाय' गृहीत्वा व्रजति, एवं भिक्षुरपि 'पत्ते'त्ति पात्रमुपलक्षणत्वाच्छेषोपकरणं चादाय परिव्रजेदिति सम्बन्धः, कीडग् ?-'निरपेक्षो' निरभिलाषः, तस्य वा विनाशादौ शोकाकरणतो निर|पेक्षो-निरभिष्वङ्गः, तथा च प्रतिदिनमसंयमपलिमन्थभीरुतया पात्राद्युपकरणसन्निधिकरणेऽपि न दोष इत्यर्थः, अथवा यदि लेपमात्रयाऽपि सन्निधिं न कुर्वीत कथमागामिनि दिने भोक्तव्यमित्याह-पक्षीव निरपेक्षः, पात्रं पतद्रहादिभाजनमर्थात्तन्निर्योगं च समादाय ब्रजेद्-भिक्षार्थ पर्यटेद् , इदमुक्तं भवति-मधुकरवृत्त्या हि तस्य निर्वहणं, तत्किं तस्य सन्निधिना ? इति सूत्रार्थः॥ सम्प्रति यदुक्तं कृतं लब्ध्वा भक्षयेदिति, तत्र कथं तल्लाभ इति तदुपायमाहयद्वा-यदुक्तं 'निरपेक्षः परिव्रजेदिति तदभिव्यक्तीकर्तुमाह
एसणासमिओ लज़, गामे अनियओचरे । अप्पमत्तो पमत्तेहिं, पिंडवातं गवेसए ॥१७॥ व्याख्या-एषणायाम्-उत्पादनग्रहणग्रासविषयायां सम्यगितः-स्थितः समितः एषणासमितः, प्राधान्याच इहैषणाया एवोपादानं, प्रायस्तद्भावे ईर्याभाषादिसमितिसम्भव इति ज्ञापनार्थ वा, अनेन निरपेक्षत्वमुक्तं, 'लजू'त्ति लज्जा-संयमस्तदुपयोगानन्यतया यतिरपि तथोक्तः, आपत्वाचैवं निर्देशः, ग्रामे उपलक्षणत्वान्नगरादौ च 'अनियतः' अनियतवृत्तिः 'चरेद्' विहरेत् , अनेनापि निरपेक्षतैवोक्ता । चरंश्च किं कुर्यादित्याह-'अप्रमत्तः' प्रमादरहितः सन् 'पमत्तेहिति प्रमत्तेभ्यो गृहस्थेभ्यः, ते हि विषयादिप्रमादसेवनात् प्रमत्ता उच्यन्ते, "पिण्डपातं' भिक्षां 'गवेषयेद्'।
॥२६९॥
Jain Education
I
onal
For Private & Personal use only
vidinelibrary.org