SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः क्षुल्लकनिग्रन्थीयम्. उत्तराध्य. बहिया उड्डमायाय, नावकंखे कयाइवि । पुव्वकम्मक्खयहाए, इमं देहमुदाहरे ॥१४॥ व्याख्या-'बहिय'त्ति बहिः, कोऽर्थः ?-बहिर्भूतं भवादिति गम्यते, ऊवं सर्वोपरिस्थितम् अर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थ यतितव्यमिति निश्चित्य बुद्धया सम्प्रधार्येतियावत् , अथवा बहिः-आत्मनो बहिर्भूतं धनधान्यादि ॥२६८॥ 1 ऊर्ध्वम्-अपवर्गमादाय-गृहीत्वा, हेयत्वेनोपादेयतया च ज्ञात्वेतियावत् , 'नावकाङ्केत् ' विषयादिकं नाभिलपेत् , न कचिदभिष्वङ्गं कुर्वीतेति तात्पर्य, 'कदाचिदपि' उपसर्गपरीषहाकुलिततायामपि, आस्तामन्यदा, एवं सति शरीरधारण* मप्ययुक्तमेव, एतद्धारणे सत्याकाङ्क्षासम्भवात् , तस्यापि चात्मनो बहिर्भूतत्वात् अत आह–पुचेत्याद्यर्द्ध, पूर्व-पूर्वकालभावि तच तत्कर्म च पूर्वकर्म तस्य क्षयः तदर्थमिमं-प्रत्यक्षं 'देहं शरीरं 'समुद्धरेद' उचिताहारादिभोगतः परिपालयेत्, तद्धारणस्य विशुद्धिहेतुत्वात् , तत्पाते हि भवान्तरोत्पत्तावविरतिरपि स्यात्, उक्तं च-"सर्वत्थ संजमं संजमातो अप्पाणमेव रक्खेजा। मुचति अतिवायातो पुणो विसोही ण याविरती ॥१॥” ततः शरीरोद्धरणमपि निरभिष्वङ्गतयैव विधेयमिति सूत्रार्थः ॥ यथा च देहपालनेऽपि नाभिष्वङ्गसम्भवः तथा दर्शयितुमाह विविच्च कम्मणो हेउ, कालखी परिव्वए ।मायं पिंडस्स पाणस्स, कडं लडूण भक्खए ॥१५॥ व्याख्या-विविच्य' पृथकृत्य 'कर्मणो' ज्ञानावरणादेः 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादि, कालम्१ सर्वत्र संयम संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनर्विशुद्धिर्न चाविरतिः ॥ १॥ ॥२६॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy