SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अकाम बृहद्वृत्तिः मरणाध्य. ॥२३०॥ 'कति' कियन्ति मरणानि, अङ्गीकृत्य इति शेषः, म्रियते-प्राणांस्त्यजति, जन्तुरिति गम्यते, 'एगसमय'ति सुब्ब्यत्ययात् एकस्मिन् समये 'कइखुत्तो'त्ति कतिकृत्वः कियतो वारान् , 'वा' समुच्चये, अपिः पूरणे, 'एकेकंति' एकैकस्मिन् वक्ष्यमाणभेदे मरणे म्रियते इति योज्यम् , 'मरणे' वक्ष्यमाणभेद एवैकैकस्मिन् 'कतिभागो'त्ति कतिसङ्ख्यो भागो म्रियते, 'सर्वजीवानाम्' अशेषजीवानाम् 'अणुसमयंति प्रतिसमयं निरन्तरमितियावत् , अन्तरं-व्यवधानं सहान्तरेण वर्तत इति सान्तरं, वा विकल्पे, किमुक्तं भवति ?-एषु कतरनिरन्तरं सान्तरं वा ?, तथैकैकं 'कियचिरं' कियत्परिमाणं कालं सम्भवतीति गाथाद्वयाक्षरार्थः ॥ २१०-२११॥ भावार्थ तु खत एव वक्ष्यति नियुक्तिकारः-तत्र च 'यथो देशं निर्देश' इति न्यायतःप्रथमं द्वारमाश्रित्याहP|आवीचि ओहि अंतिय वलायमरणं वसट्टमरणं च । अंतोसल्लं तब्भव बालं तह पंडियं मीसं ॥ २१२॥ छउमत्थमरण केवलि वेहाणस गिद्धपिट्टमरणं च । मरणं भत्तपरिण्णा इंगिणी पाओवगमणंच ॥२१३॥ __ व्याख्या-इह च मरणशब्दस्य प्रत्येकमभिसम्बन्धात् आवीचिमरणम् १ अवधिमरणम् २ ‘अन्तियत्ति आर्षत्वादत्यन्तमरणं ३ 'वलायमरणं'ति तत एव वलन्मरणं ४ वशार्त्तमरणं च ५ अन्तःशल्यमरणं ६ तद्भवमरणं ७ बालमरणं ८ तथा पण्डितमरणं ९ मिश्रमरणं १० छद्मस्थमरणं ११ केवलिमरणं १२ 'वेहाणसं'ति तत एव वैहायसमरणं ॥२३०॥ Jain Educa t ion For Private & Personal use only vidinelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy