SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ 25. बृहद्धृत्तिः उत्तराध्य. सूत्रचतुष्टयं, 'अण्णवंसि महोहंसित्ति, 'अर्णवे' समुद्रे 'महोघे बृहजलप्रवाहे 'नावा विपरिधावई'त्ति 'नौः' द्रोणी केशिगौत'विपरिधावति' विशेषेण समन्ताद्गच्छति, यां' नावम् 'असि' भवसि,यस्यां वा नावि हे गौतम ! 'आरूढः' चटितस्त्व मीयाध्य० मिति गम्यते, ततः 'कथं' केन प्रकारेण 'पारं' पर्यन्तं प्रक्रमादर्णवस्य 'गमिष्यसि ?' यास्यसि ?, न कथश्चिदिति प्र-18 ॥५०९॥ दष्टुराशयः। गौतम आह-'जा उत्ति या 'तुः' पूरणे आश्राविणी-जलसंग्राहिणी पाठान्तरतः साश्राविणी वा-सहा श्राविभिः-जलप्रवेशान्वितैः प्रक्रमात्सन्धिभिर्वर्त्तत इतिकृत्वा 'नौः' द्रोणी न सा 'पारस्य' प्रस्तावात्समुद्रपर्यन्तस्य गामिनी' अवश्यंयायिनी, 'जा निरस्साविणि'त्ति उत्तरत्र तुशब्दस्य भिन्नक्रमत्वाद् या पुनर्निष्क्रान्ता आश्राविभ्यः । प्राग्वत् सन्धिभ्यो निराश्राविणी नौः सा 'पारस्य' उक्तरूपस्य 'गामिनी' अवश्यं पारप्रापिका, ततोऽहं निराश्राविणीमारूढ उपायतः पारगाम्थेव भविष्यामीति भावः । 'नावे'त्यादि प्रतीतार्थ, नवरं नावस्तरणत्वात्तरिता तार्य च पृष्टमेवात एवोत्तरमाह-शरीरम् 'आहुः' ब्रुवते नौरिति, तस्यैव सम्यग्दर्शनादित्रयानुष्ठानहेतुतया, भवोदधिनि ॥५०९॥ कस्तारकत्वाजीवः 'उच्यते' प्रतिपाद्यते तीर्थकृद्भिरिति शेषो नाविकः, स युक्तरूपया नावा भवोदधिंतरतीति, संसारः ६ अर्णवः' समुद्र उक्तः, तस्यैव तत्त्वतस्तार्यत्वात् , 'य' संसारमर्णवप्रायं तरन्ति 'महेसिणो'त्ति प्राग्वन्महदेषिणो मह पयो वा, तदा च तथाविधमहर्षीणां प्रत्यक्षत्वात् श्रोतृप्रतीत्यर्थमेतदिति सूत्रचतुष्टयार्थः॥ Jain Education Il o nal For Private & Personal use only sinelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy