SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ मृगापुत्रीया०१९ उत्तराध्य. पठ्यते च-महालयाः-महत्यः, 'भीमाः' श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि वैतान्यत्यन्तभयोत्पादनायोक्तानि, इह च वेदना इति प्रक्रमः॥ कथं पुनस्तस्यास्तीत्रादिरूपत्वमित्याशय 'जारिसे' त्यादिना इहत्यवेदनापेक्षया नरकबृहद्वृत्तिः दुःखवेदनाया अनन्तगुणत्वमाह, वेयण'त्ति प्रक्रमाद् दुःखवेदना ॥ न केवलं नरक एव दुःखवेदना मयाऽनुभूता किन्तु ॥४६॥ सर्वाखपि गतिष्बिति पुनर्निगमनद्वारेणाह-सवे' त्यादिना, इह च 'असाता' दुःखरूपा निमेषः-अक्षिनिमीलनं तस्यान्तरं-व्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तन्मात्रमपि-तत्परिमाणमपि कालमिति शेषः 'यद्' इति यस्मात् 'साता' सुखरूपा नास्ति वेदना, तत्त्वतो वैषयिकसुखमसुखमेव, ईर्ष्याद्यनेकदुःखानुविद्धत्वाद्विपाकदारुणदत्वाच ॥ सर्वस्य चास्य प्रकरणस्यायमाशयः-य एवमहं निमेषान्तरमात्रमपि कालं न सुखं लब्धवान् स कथं तत्त्वतः सुखोचितः सुकुमारो वेति शक्यते वक्तुं ?, येन च नरकेष्वत्युष्णशीतादयो महावेदना अनेकशः सोढास्तस्य महाव्रतपालनं क्षुदादिसहनं वा कथमिव बाधाविधायि ?, तत्त्वतस्तस्य परमानन्दहेतुत्वात् ,तत्प्रव्रज्यैव मया प्रतिपत्तव्येत्येकत्रिंशत्सूत्रावयवार्थः ॥ तत्रैवमुक्त्वोपरते तं विंतऽम्मापियरो, छदेणं पुत्त ! पव्वया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥ ७५ ॥ 'तं' मृगापुत्रं बतोऽम्बापितरौ छन्दः-अभिप्रायस्तेन स्वकीयेनेति गम्यते, किमुक्तं भवति ?-यथाऽभिरुचितं पुत्र! RARY ॥४६॥ Jain Educati o nal For Privale & Personal use only hdjainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy