________________
SANSALISADSOHOROSAGAR
|च-'अत्तपण्णहत्ति तत्र च आत्ता-सिद्धान्तादिश्रवणतो गृहीतामाप्तां वा इहपरलोकयोः सद्बोधरूपतया हिता
प्रज्ञाम्-आत्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो हन्ति यः स आत्तप्रज्ञाहा आप्तप्रज्ञाहा वा, 'वुग्गहे'त्ति | व्युद्धहे दण्डादिघातजनिते विरोधे 'कलहे' तस्मिन्नेव वाचिके 'रक्तः' अभिष्वक्तः, शेषं प्राग्वत् ॥ अपरं च अस्थिरासनः, कुकुचः कुकुचो वा द्वयमपि पूर्ववत् , 'यत्र तत्र' इति संसक्तसरजस्कादावपीत्यर्थः 'निषीदति' उपविशति 'आसने' पीठादौ 'अनायुक्तः' अनुपयुक्तः सन् , शेषं प्राग्वत् ॥ तथा सह रजसा वर्त्तते इति सरजस्को तथाविधौ पादौ यस्य स तथा 'खपिति' शेते, किमुक्तं भवति?-संयमविराधनां प्रत्यभीरुतया पादावप्रमृज्यैव शेते, तथा शय्यां' वसतिं न प्रतिलेखयति, उपलक्षणत्वान्न च प्रमार्जयति, 'संस्तारके' फलककम्बलादौ, सुप्त इति शेषः, 'अनायुक्तः' "कुकुडिपायपसारण आयामेउं पुणोवि आउंटे" इत्याद्यागमार्थानुपयुक्तः, अन्यत्तथैवेति सूत्रनवकार्थः । इदानीं तपआचारातिक्रमतः पापश्रमणमाह
दुद्धदहीविगईओ, आहारेइ अभिक्खणं । अरए अ तवोकम्मे, पावसमणित्ति वुच्चई ॥ १५ ॥ अत्यंतमि य सूरंमि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणित्ति वुच्चई ॥१६॥ आयरियपरिचाई, परपासंडसेवए । गाणंगणिए दुभूए, पावसमणित्ति वुच्चई ॥१७॥ १ कुकुटीवत्पादप्रसारणं आयम्य (विस्तार्य ) पुनरपि आकुञ्चयेत् ।
Jain Educati
o
nal
For Privale & Personal use only
Mainelibrary.org