SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Jain Education | सर्वदा सैवैका जन्मरात्रिः स्यात्ततो न द्वितीया मरणरात्रिः कदाचित्प्रादुष्ण्यात्, ताश्चाधर्म कुर्वतो जन्तोरिति गम्यते अफला यान्ति रात्रयः, अधर्मनिबन्धनं च गृहस्थतेत्यायुषोऽनित्यत्वादधर्मकरणे च तस्य निष्फलत्वात्तत्परित्याग | एव श्रेयानिति भावः । इत्थं व्यतिरेकद्वारेण प्रव्रज्याप्रतिपत्तिहेतुमभिधाय तमेवान्वयमुखेनाह - 'जा जे'त्यादि पूर्ववत्, नवरं 'धम्मं च' त्ति चशब्दः पुनरर्थे धर्म पुनः कुर्वतः सफला धर्मलक्षणफलोपार्जनतो, न च व्रतप्रतिपत्तिं विना धर्म इत्यतो व्रतं प्रतिपत्स्यावहे इत्यभिप्राय इति सूत्रद्वयार्थः ॥ इत्थं कुमारवचनादाविर्भूतसम्यक्त्वस्तद्वचन - | मेव पुरस्कुर्वन् भृगुराह - एगओ संवसित्ता णं, दुहओ संमत्तसंजया । पच्छा जाया ! गमिस्सामो, भिक्खमाणा कुले कुले ||२६|| 'एकतः' एकस्मिन् स्थाने 'समुष्य' सहवासित्वा 'दुहतो' त्ति द्वयं च द्वयं च द्वये आवां युवां च, व्यक्त्यपेक्षया बहुवचनं पुरुषप्राधान्याच्च पुंलिङ्गता, 'सम्यक्त्वसंयुताः' सम्यक्त्वेन - तत्त्वरुचिलक्षणेन संयुताः - सहिताः उपलक्षणत्वाद्देशविरित्या च 'पश्चाद्' यौवनावस्थोत्तरकालं, कोऽर्थः ? - पश्चिमे वयसि, 'जातो' पुत्रौ ! 'गमिष्यामः' वजिष्यामो वयं | ग्रामनगरादिषु, मासकल्पादिक्रमेणेति शेषः, अर्थाच प्रत्रज्यां प्रतिपद्य, 'भिक्षमाणाः' याचमानाः, पिण्डादिकमिति गम्यते, व १-'कुले कुले' गृहे गृहे न त्वेकस्मिन्नेव वेश्मनि, किमुक्तं भवति ? - अज्ञातोछवृत्त्येति सूत्रार्थः ॥ कुमारावाहतुः- For Private & Personal Use Only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy