________________
उत्तराध्य.
चित्रसंभू
बृहद्वृत्तिः ॥३८॥
कर-CROCCXCCCCX
दासा दसन्नये आसी, मिआ कालिंजरे नगे। हंसा मयंगतीराए, सोवागा कासिथमिए ॥६॥ देवा य देवलोगंमि, आसि अम्हे महिड्डिआ। इमा णो छट्ठिया जाई, अन्नमन्नेण जा विणा ॥७॥
तीयाध्य. चक्रवर्ती 'महर्द्धिकः' बृहद्विभूतिब्रह्मदत्तो महायशाः 'भ्रातरं' जन्मान्तरसोदर्य 'बहुमानेन' मानसप्रतिबन्धेन 'इदं वक्ष्यमाणलक्षणं 'वचनं' वाक्यं 'अब्रवीद्' इत्युक्तवान् , यथा 'आसिमो'त्ति अभूवावां भ्रातरौ द्वावपि 'अन्योऽन्य' १३ परस्परं 'वसाणुग'त्ति वशम्-आयत्ततामनुगच्छन्तौ यौ तावन्योऽन्यवशानुगौ, तथा 'अन्योऽन्यमनुरक्तौ' अतीव स्नेहवन्ती, तथा अन्योऽन्यहितैषिणी' परस्परशुभाभिलाषिणी, पुनः पुनरन्योऽन्यग्रहणं च तुल्यचित्ततातिशयख्याप-18 नार्थ, मकारश्च सर्वत्रालाक्षणिकः । केषु पुनर्भवेश्वित्थमावामभूवेत्याह-दासौ 'दशाणे दशार्णदेशे "आसित्ति अभूव, मृगौ 'कालिअरे' कालिअरनाम्नि नगे, हंसौ 'मृतगङ्गातीरे' उक्तरूपे, 'श्वपाको' चाण्डालौ 'कासिभूमिए'त्ति काशीभूम्यां काश्यभिधाने जनपदे, देवौ च देवलोके सौधर्माभिधानेऽभूव 'अझे'त्ति आवां महर्द्धि को न तु किल्बिषिकी, 'इमा मेत्ति 'इमा णो'त्ति वा उभयत्रेयमावयोः षष्ठयेव पष्ठिका जातिः, कीदृशी येत्याह-'अन्नमनेणं'ति अन्योऽन्येन परस्परेण या विना, कोऽर्थः ?-परस्परसाहित्यरहिता, वियुक्तयोर्यकेति भाव इति सूत्रचतु- ॥३८३॥ ष्टयार्थः ॥ इत्थं चक्रवर्त्तिनोक्ते मुनिराह__ कम्मा नियाणप्पगडा, तुमे राय ! विचिंतिया। तोर्स फलविवागेणं, विप्पओगमुवागया ॥८॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org