SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ हरिकेशी. यमध्यय नम. उत्तराध्य. ब्रह्मचर्येण सत्येन, तपसा संयमेन च । मातङ्गर्षिर्गतः शुद्धिं, न शुद्धिस्तीर्थयात्रया ॥१॥" अथवा 'ब्रह्मेति ब्रह्मचर्य- बृहद्धत्तिः वन्तो मतुब्लोपादभेदोपचाराद्वा साधव उच्यन्ते, सुब्व्यत्ययाचैकवचनं, 'संति' विद्यन्ते तीर्थानि ममेति गम्यते, उक्तं हि-"साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः। तीर्थ पुनाति कालेन, सद्यः साधुसमागमः॥१॥" किं ॥३७३॥ च-भवत्प्रतीततीर्थानि प्राण्युपमईहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता?, तथा चोक्तम्"कुर्याद्वर्षसहस्रं तु, अहन्यहनि मजनम् । सागरेणापि कृत्स्नेन, वधको नैव शुद्धयति ॥१॥” इदशान्तितीर्थे एव विशिनष्टि-'अनाविले' मिथ्यात्वगुप्तिविराधनादिभिरकलुषे अनाविलवादेवात्मनो-जीवस्य प्रसन्ना-मनागप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिंस्तदाप्तप्रसन्नलेश्यं तस्मिन्, अथवा आप्ता-प्राणिनामिह परत्र च हिता प्राप्ता वा तैरेव | प्रसन्नलेश्या-उक्तरूपा यस्मिंस्तदाप्तप्रसन्नलेश्यं तस्मिन्नेवंविधे धर्महदे, ब्रह्माख्यशान्तितीर्थे च, यदा ब्रह्मशब्देन ब्रह्मचर्यवन्त उच्यन्ते तत्पक्षे वचनविपरिणामेन विशेषणद्वयं व्याख्येयं, 'जहिंसि'त्ति यत्रास्मि सात इव खातः-अत्यन्तशुद्धिभवनाद्विमलो-भावमलरहितोऽत एवाति(व)विशुद्धो-गतकलङ्कः, 'सुसीतीभूओ'त्ति सुशीतीभूतो रागाद्युत्पत्ति विरहतः सुष्ठ शैत्यं प्राप्तः, पठ्यते च-'सुसीलभूओ'त्ति सुष्ठ-शोभनं शीलं-समाधानं चारित्रं वा भूतः-प्राप्तः सुशीलदभूतः 'प्रजहामि' प्रकर्षेण त्यजामि दूषयति-विशुद्धमप्यात्मानं विकृति नयतीति दोषः-कर्म तं, अनेनेतदाह ममापि इदतीर्थे एव शुद्धिस्थानं परमेवं विधे एवेति, निगमयितमाह-'एतदि'त्यनन्तरमुक्तं 'स्वानं' रजोहीनं 'कुशलैः'। COMXXX ॥३७३॥ in Education International For Privale & Personal use only www.jainelibrary.org.
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy