________________
ACCORMACOCK
भावश्रुतं पुनः 'द्विविधं' द्विभेदं 'सम्यकश्रुतं चैव' इति प्राग्वत् ततो मिथ्याश्रुतं चेति गाथार्थः ॥ एतत्खरूपमाहभवसिद्धिया उ जीवा सम्मट्रिी उ जं अहिजति । तं सम्मसुएण सुयं कम्मटविहस्स सोहिकरं ३१३ । मिच्छट्ठिी जीवा अभवसिद्धी य जं अहिजंति । तं मिच्छसुएण सुयं कम्मादाणं च तं भणियं ॥ ३१४ ॥ | व्याख्या-भवे भव्या वा सिद्धिरेपामिति भवसिद्धिका भव्यसिद्धिका वा, 'तुः' अवधारणे, एत एव 'जीवाः || प्राणिनः, तेऽपि 'सम्मट्टिी उत्ति सम्यग्दृष्टय एव 'यत्' इति श्रुतम् 'अधीयते' पठन्ति 'तं सम्मसुएण'त्ति सम्यकश्रुतशब्देन 'श्रुतम्' इति प्रक्रमाद भावश्रुतम् , उच्यते इति शेषः । आह-भाष्यमाणत्वेनास्य कथं न द्रव्यश्रुतत्वम् ?, उच्यते, अनेनैतजनित उपयोग एवोपलक्षित इति न दोपः, एवमन्यत्रापि भावनीयं । तन्माहात्म्य|माह-कम्मट्टविहस्स'त्ति अष्टविधकर्मणः 'शद्धिकरम' अपनयनकर्तृ॥ मिथ्याश्रुतमाह-मिथ्यादृष्टयो जीवाः, भव्या इति गम्यते, "अभव्यसिद्धयश्च' अभव्याः यदधीयते तत 'मिध्याश्रुतेन' मिथ्याश्रुतशब्देन 'श्रुतम्' इतीहापि भावश्रुतं भणितमिति सम्बन्धः, कर्म-ज्ञानावरणादि आदीयते-खीक्रियतेऽनेन जन्तुभिरिति कर्मादानं-कर्मोपादानहेतुः, 'चः' समुच्चये, 'तत् श्रुतं 'भणितम' उक्तमिति गाथाद्वयार्थः ॥ इदानीं पूजा, साऽपि नामादिभेदतश्चतुर्धेव, तत्राऽऽये सुगमे, द्रव्यपूजामाह
नामा ५
Sain Education Interational
For Privale & Personal use only
A
mr.jainelibrary.org