________________
RAKASARIE%%
| व्याख्या-'मिथिलां' मिथिलानाम्नी नगरी, सह पुरैः-अन्यनगरैर्जनपदेन च वर्तते या सा तथोक्ता तां न त्वेका-10 मेव, 'बलं' हस्त्यश्वादि चतुरङ्गम् 'अवरोधं च अन्तःपुरं 'परिजन' परिवर्ग 'सर्व' निरवशेष, न त तथाविधप्रतिबन्धानास्पदं किञ्चिदेव 'त्यक्त्वा' अपहाय 'अभिनिष्क्रान्तः' प्रव्रजितः, 'एगंत'त्ति एक:-अद्वितीयः कर्मणामन्तो यस्मिनिति, मयूरव्यंसकादित्वात् समासः, तत एकान्तो-मोक्षस्तम् 'अधिष्ठितः' इव आश्रितवानिवाधिष्ठितः, तदपायसम्यग्दर्शनाद्यासेवनादधिष्ठित एव वा, इहैव जीवन्मुक्त्यवाप्तेः, यद्वैकान्तं-द्रव्यतो विजनमुद्यानादि भावतश्च सदा "एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासी दृश्योऽस्ति यो मम ॥१॥” इति भावनात एक एवाहमित्यन्तो-निश्चय एकान्तः, प्राग्वत् समासः, तमधिष्ठितः, 'भगवान्' इति धैर्यवान् श्रतवान वेति सूत्रार्थः ॥ तत्रैवमभिनिष्क्रामति यदभूत्तदाह-यदिवा यदुक्तं 'सवें परित्यज्याभिनिष्क्रान्त' इति तत्र कीटक तत् त्यज्यमानमासीदित्याहकोलाहलगभूतं आसी मिहिलाए पव्वयंतमि । तइया रायरिसिम्मि नमिम्मि अभिनिक्खमंतमि ॥५॥
व्याख्या-कोलाहलः-विलपिताऽऽक्रन्दितादिकलकलः कोलाहल एव कोलाहलकःस भूत इति-जातो यस्मिंस्तत कोलाहलकभूतम् आहितादेराकृतिगणत्वान्निष्ठान्तस्य परनिपातः, यदिवा भूतशब्द उपमार्थः, ततः-कोलाहलकभूत-2 मिति कोलाहलकरूपतामिवापन्नं हा तात! मातरित्यादिकलकलाकुलिततया 'आसीत्' अभूत् मिथिलायां, सर्व गृह
उत्तराध्य.५२
H
Lain Ede
Tational
For Privale & Personal use only
l
inelibrary.org