________________
जेसिं तु विउला सिक्खा, मूलियंते अतिच्छिया। सीलवंता सविसेसा, अहीणा जंति देवयं ॥ २१॥ __व्याख्या-'येषां तु' येषां पुनः 'विपुला' निःशङ्कितत्वादिसम्यक्त्वाचाराणुव्रतमहाव्रतादिविषयत्वेन विस्तीर्णा 'शिक्षा' ग्रहणासेवनात्मिका, अस्तीति गम्यते, मूले भवं मौलिक-मूलधनमिव मानुषत्वं, त एवंविधाः, विउद्दि
यत्ति अतिट्टियत्ति अतिच्छियत्ति पाठत्रयेऽपि अतिक्रान्ताः-उल्लचितवन्त इत्यर्थः, यद्वाऽतिक्रम्य-उल्लवय, कीदृशाः *सन्तः ?-शीलं-सदाचारः अविरतसम्यग्दृशां विरतिमतां तु देशसर्वविरमणात्मकं चारित्रं तद्विद्यते येषां ते शील
वन्तः, तथा सह विशेषेण-उत्तरोत्तरगुणप्रतिपत्तिलक्षणेन वर्त्तन्त इति सविशेषाः, अत एव 'अदीनाः' कथं वयममुनत्र भविष्याम इति वैक्लव्यरहिताः परिषहोपसर्गादिसम्भवे वा न दैन्यभाज इत्यदीनाः 'यान्ति' प्रानवन्ति, देवभावो
देवता सैव दैवतं । ननु तत्त्वतो मुक्तिगतिरेव लाभः, तत्किमिह तत्परिहारतो देवगतिरुक्तेति ?, उच्यते, सूत्रस्य त्रिकालविषयत्वात् , मुक्तेश्चेदानी विशिष्टसंहननाभावतोऽभावाद्देवगतेश्च "छेवट्टेण उ गम्मइ चत्तारि उ जाव
आदिमा कप्पा" इति वचनाच्छेदपरिवर्तिसंहननिनामिदानींतनानामपि सम्भवादेवमुक्तमिति सूत्रार्थः ॥ प्रस्तुतमेहैवार्थ निगमयन्नुपदेशमाह
एवं अदीणवं भिक्खं, अगारिं च विजाणिया। कहन्न जिच्चमेलिक्खं, जिच्चमाणो न संविदे ॥ २२॥ १ सेवार्तेन तु गम्यते चत्वारो यावदादिमाः कल्पाः
Jain Educatio
n
al
For Privale & Personal use only