________________
सवा मनोऽनुकूलतया प्रतिभासमानाः, एतेनैतदप्याह-यथैत एव देशकालावस्थादिवशतो विचित्राभिसन्धितया
जन्तूनां मनसोऽननुलोमाः सन्तोऽनभिप्रेतोऽर्थः । इत्थं व्याख्यानतो विशेषप्रतिपत्तिमाश्रित्येन्द्रियापेक्षया मनोऽपे
क्षया च भेदेनाभिप्रेतोऽनभिप्रेतश्चार्थो व्याख्यातः, अथवाऽनन्तरगाथापश्चार्द्धनाविशेषेणेन्द्रियाणां मनसश्चानुकूदलोऽभिप्रेतोऽर्थः इतरस्त्वनभिप्रेत उक्तः, एतद्गाथयाऽपि स एव विशेषतो दर्शित इति व्याख्येयम् , अत्र च सर्वा ॥ इति सर्वप्रकारा अनुलोमा इति चेन्द्रियमनसामनुकूलाः, शेष प्राग्वत् । उपेक्षणीयस्य विहानभिधानं नयस्य कस्य|चिन्मतेनानभिप्रेत एव तस्यान्तर्भावादिति गाथार्थः॥४४॥ उक्तोऽभिप्रेतानभिप्रेतभेदरूप इतरेतरसंयोगः, साम्प्रतममुमेवाभिलापविषयमाह
अभिलावे संजोगो दवे खित्ते अ कालभावे अ । दुगसंजोगाईओ अक्खरसंजोगमाईओ ॥ ४५ ॥ | व्याख्या-'अभिलापः' उक्तखरूपः, तद्विषयः 'संयोगः' प्रक्रमादभिलापेतरेतरसंयोगः, अयं च त्रिधा सम्भवति, ४ तत्रैकोऽभिलापस्याभिलाप्येन द्वितीयोऽभिलाप्यस्याभिलाप्यान्तरेण तृतीयो वर्णस्य वर्णान्तरेण । तत्राद्योऽभि
लाप्यस्य द्रव्यादिभेदेन चतुर्विधत्वात् 'द्रव्ये' इति द्रव्यविषयः, स चार्थाद् घटादिशब्दस्य पृथुवुनोदराद्याकारपरिपणतद्रव्येण वाच्यवाचकभावलक्षणः सम्बन्धः, एवं क्षेत्रे च क्षेत्रविषयः, आकाशध्वनेरवगाहदानलक्षणक्षेत्रेण 'काल
भावे' इति समाहारद्वन्द्वः, ततः 'काले' कालविषयः समयादिश्रुतेर्वर्तनादिव्यङ्ग्येन कालपदार्थन, 'भावे च' भावविषय
उत्तराध्य.
For Private & Personal use only
Theibrary.org