SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. व्याख्या-लिङ्गं व्यभिचार्यपी' ति प्राकृतलक्षणात् सर्वत्र लिङ्गव्यत्ययः, ततः परिमण्डलं, प्रक्रमात् संस्थान माअध्ययनम् बहद्धत्तिः मेवमुत्तरत्रापि, तच्च बहिवृत्ततावस्थितप्रदेशजनितमन्तःशुषिरं, यथा वलकस्य, चशब्द उत्तरभेदापेक्षया समुच्चये, वृत्तं तदेवान्तःशुषिरविरहितं यथा कुलालचक्रस्य व्यत्रं-त्रिकोणं, यथा शृङ्गाटकस्य, चतुरस्र-चतुष्कोणं, यथा कुम्भिकायाः, ॥ २७॥ आयतं-दीर्घ, यथा दण्डस्य, चः पूर्वभेदापेक्षया समुच्चये 'एव' अवधारणे, तत इयत एव संस्थानभेदाः, 'घणपयर'त्ति ६ घनं च प्रतरं च धनप्रतरं, प्राकृतत्वाद्विन्दुलोपः, सर्वत्र च प्रतरपूर्वक एव घनः प्ररूप्यते, इहापि तथैवोपदर्शयिष्यते, है ततः प्रतरघन इति निर्देशःप्राप्तः, अल्पाक्ष(चूत)रत्वात्तु घनशब्दस्य पूर्वनिपातः, ततश्चैकैकं परिमण्डलादि प्रतरं घनं च, भवतीति गम्यते, तथा प्रथमम्-आद्यं वर्जयति-त्यजतीति प्रथमवर्ज-परिमण्डलरहितं वृत्तादिसंस्थान|चतुष्कमित्यर्थः 'ओयपएसे य'त्ति ओजःप्रदेशं च-विषमसङ्ख्यपरमाणुकं 'जुम्मे य' ति प्रक्रमाद् युग्मप्रदेशं च, उभयत्र चः समुच्चये । इह च घनप्रतरभेदमेव वृत्तादीत्थं भिद्यते, ततः प्रतरवृत्तमोजःप्रदेशं युग्मप्रदेशं च, तथा घनवृत्तमोजःप्रदेशं युग्मप्रदेशं च, एवं व्यस्रादिष्वपि चतुर्विधं भावनीयं, परिमण्डलं वर्जनीयं च, समसङ्ख्याणुष्वेव तस्य सम्भवेनैवंविधभेदासम्भवात् , तथा च द्विविधमेव परिमण्डलमिति गाथार्थः ॥ ३८ ॥ इह च परिमण्डलादि प्रत्येकं जघन्यमुत्कृष्टं च, तत्रोत्कृष्टं सर्वमनन्ताणुनिष्पन्नमसङ्ख्यप्रदेशावगाढं चेत्येकरूपतयाऽनुक्तमपि सम्प्रदायाज्ञातुं शक्यमिति तदुपेक्ष्य जघन्यं तु प्रतिभेदमन्यान्यरूपतया न तथेति तदुपदर्शनार्थमाह For Privale & Personal use only tanelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy