SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२१२॥ SAMADCASSACADCALMANSAR यथा द्रव्यतोऽपारनारधिविमनानां कदा कदैतदन्तः स्यात् इत्याकुलितचेतसामाश्वासनहेतुराश्वासद्वीपः, एवं संसा- असंस्कृता रसागरमपारमुत्तरीतुमनसामत्यन्तमुद्वेजितानां भव्यानामाश्वासनहेतुः सम्यग्दर्शनं भावाश्वासद्वीपः, तत्र हि द्रव्यद्वीप इव वीचिभिः कुवादिभिरमी नोयन्ते नापि मकरादिभिरिवानन्तानुबन्धिभिः क्रोधादिभिरतिरौद्रैरप्युपद्रूयन्ते, यथा | च द्रव्याश्वासद्वीपः प्लाव्यमानतयैकः सन्दीनः तथाऽयमपि भावावासद्वीपः सम्यग्दर्शनात्मकः कश्चित् क्षायोपशमिक औषशमिको वा पुनरनन्तानुवन्ध्युदये मिथ्यात्वोदयेन जलोत्पीलेनेव प्लाव्यते, ततस्तन्निवन्धनैर्जलचरैरिवानेकद्वन्द्वैरुपताप्यत इति सन्दीन उच्यते, यस्तु क्षायिकसम्यक्त्वलक्षणो न जलोत्पीलेनेव मिथ्यात्वोदयेनाक्रम्यते अत एव च न ततस्थस्तन्निबन्धनापायैः कथञ्चिधुज्यते असावसन्दीनो भावद्वीपः, तथा यथैव तमसान्धीकृतानामपि प्रकाशदीपः तत्प्रकाश्यं वस्तु प्रकाशयति एवमज्ञानमोहितानां ज्ञानमपीति भावप्रकाशदीप उच्यते, अयमप्येकः संयोगिमोऽन्यश्चान्यथा, तत्र यः श्रुतज्ञानात्मको भावदीपः अक्षरपदपादश्लोकादिसंहतिनिर्वर्तितः स संयोगिमः, यस्त्वन्यनिरपेक्षा निरपेक्षतया च न संयोगिमः स केवलज्ञानात्मकोऽसंयोगिमो भावदीप इति गाथार्थः ॥ २०७॥ ॥२१२॥ व्याख्यातं सूत्रस्पर्शिकनियुक्त्या दीव'त्ति सूत्रपदम् , अत्र च प्रकाशदीपेनाधिकृतं, ततश्च 'दीवप्पणढे वत्ति' प्रकपण नष्टो-दृष्ट्यगोचरतां गतः प्रणष्टो दीपोऽस्येति प्राकृतत्वात्प्रणष्टदीपः, आहिताग्यादेराकृतिगणत्वाद्वा दीपप्रणष्टः तद्वदिति रटान्तः, अत्र सम्प्रदायः library Jain Education For Private & Personal Use Only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy