________________
उत्तराध्य.
बृहद्वृत्तिः
॥ १८४॥
| द्वारयति ततः स्मृतो धर्मः ॥ २ ॥ तस्य - एवमन्वर्थनाम्नो धर्मस्य 'दुर्लभा' दुरापा प्रागुक्तालस्यादिहेतुतः, स च - 'मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापरा । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण | दृष्टः ||१||' इत्यादिगतादिकल्पितोऽपि स्याद् अतस्तदपोहायाह-यं धर्मं श्रुत्वा 'प्रतिपद्यन्ते' अङ्गीकुर्वन्ति ' तपः ' | अनशनादि द्वादशविधम् ' क्षान्ति' क्रोधजयलक्षणां मानादिजयोपलक्षणं चैषा, 'अहिंसयन्ति' अहिंस्रताम्-अहिंसनशीलताम्, अनेन च प्रथमत्रतमुक्तम्, एतच्च शेषव्रतोपलक्षणम्, एतत्प्रधानत्वात्तेषाम्, एतद्वृत्तितुल्यानि हिशेष - व्रतानि, एवं च तपसः क्षान्त्यादिचतुष्कस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधस्यापि यतिधर्म्मस्याभिधानम्, इह च यद्यपि श्रुतेः शाब्दं प्राधान्यं तथापि तत्त्वतो धर्म एव प्रधानं, तस्या अपि तदर्थत्वादिति, स एव यच्छब्देन परामृश्यते, अथवा काक्का नीयते -'यद्' यस्मात् श्रुत्वा प्रतिपद्यन्ते तपःप्रभृति नाश्रुत्वा 'सुचां जाणति कल्लाणं, सोचा जाणति पावगं ' इत्याद्यागमात् तत एवमतिमहार्थतया दुरापेयमिति सूत्रार्थः ॥ ८ ॥ श्रुत्यवाप्तावपि | श्रद्धा दुर्लभतामाह
आहच्च सवणं लहुं, सद्धा परमदुलहा । सोच्चा णेयाउयं मग्गं, बहवे परिभस्सइ ॥ ९ ॥ (सूत्रम् ) व्याख्या—'आहच्च' इति कदाचित् 'श्रवणम्' प्रक्रमाद्धर्माकर्णनम्, उपलक्षणत्वान्मनुष्यत्वं च लब्ध्येति, अपि१ श्रुत्वा जानाति कल्याणं श्रुत्वा जानाति पापकम्
Jain Education International
For Private & Personal Use Only
चतुरङ्गीया ध्ययनम्
३
॥ १८४॥
www.jainelibrary.org