________________
उत्तराध्य. बृहद्वृत्तिः
॥१७॥
पञ्चप्रकारः, तत्र चौपचारिकोऽनुरूपव्यापारसम्पादनानाशातनाभेदतो द्विभेदः, तत्र चाये अभ्युत्थानम्-आगच्छति । अध्ययनम् गच्छति च दृष्टे गुरावासनमोचनम् , अभिग्रहो-गुरुविश्रामणादिनियमः, कृतिः-द्वादशावादिवन्दनं, शुश्रूषणं 'ण पक्खओ ण पुरओ' इत्यादिविधिना गुरुवचनश्रवणेच्छा, पर्युपासनमित्यर्थः, अनुगमनम्-आगच्छतः प्रत्युद्गमनं, संसाधनं-गच्छतः सम्यगनुब्रजनं, 'कुलं' नागेन्द्रादिः 'गणः' कोटिकादिः, 'क्रिया' अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशलेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिकेह गृह्यते, "धर्मः' श्रुतचारित्रात्मकः 'ज्ञान' मत्यादि 'आचार्यः' अनुयोगाचार्यः ‘गणी' गणाचार्यः अनाशातना-मनोवाकायैरप्रतीपप्रवर्तनं, भक्तिः-अभ्युत्थानादिरूपा, बहुमानो-3 मानसोऽत्यन्तप्रतिवन्धः, वर्णनं वर्णः-श्लाघनं तेन सवलना-ज्ञानादिगुणोद्दीपना वर्णसंज्वलना ॥ श्रुतस्य चत्वारः परिमाणमस्येति चतुष्कः, सङ्खयाया अतिशदन्तायाः कन्निति (पा०५-१-२२) कन् , तुशब्दश्चतुर्विधनिक्षेपो|ऽवश्यं सर्वत्र वक्तव्य इति विशेषद्योतकः, उक्तं हि-"जत्थ उ जं जाणेजा णिक्खेवं णिक्खिवे निरवसेसं। जत्थवि णवि जाणिज्जा चउक्कयं निक्खिवे तत्थ ॥१॥” निक्षेपो-न्यासः, तत्राद्ययोः सुगमत्वात्तृतीयमाह-द्रव्यतो द्रव्यरूपं वा श्रुतं द्रव्यश्रुतम् , आगमतो नोआगमतश्च, तत्रागमतोज्ञाताऽनुपयुक्तः, नोआगमतस्त्वाह-निकुते-आग
१न पक्षतो न पुरतः । २ अथ एकोनत्रिंशत्तमनियुक्तिगाथोपात्तस्य 'सुयस्स चउक्कओ उ निक्लेवो' इत्यस्य व्याख्या. ३ यत्र तु यं |जानीयात् निक्षेपं निक्षिपेन्निरवशेषम् । यत्रापि नापि जानीयात् चतुष्ककं निक्षिपेत् तत्र । १।४ 'जत्थविय न जाणिज्जा' इत्यनुयोगद्वारेषु ।
Jain Education
For Privale & Personal use only
P
inelibrary.org