SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ गता अपि ज्ञानसुखादय इति नात्र महदन्तरमुत्पश्यामः, उक्तं चाश्वसेनवाचकेन - "आत्मप्रत्यक्ष आत्माऽय" मित्यादि, अथायं न दृग्गोचर इति नास्तीत्युच्यते, नायमध्येकान्तो, यतस्तेनैवोक्तम्- " न च नास्तीह तत् सर्व चक्षुषा यन्न गृह्यते, " अन्यथा चैतन्यमपि न दृग्गोचर इति तस्याप्यसत्त्वं स्यात्, अथ तत् स्वसंविदितमिति सदुच्यते, अयमपि तथाभूत एवेति सन्नस्तु, उक्तं हि - "अस्त्येव चात्मा प्रत्यक्षो, जीवो ह्यात्मानमात्मना । अहमस्मीति संवेत्ति, रूपादीनि यथेन्द्रियैः ॥ १ ॥” इति किं बहुना ?, यथा चैतन्यमस्तीत्यभ्युपगम्यते तथाऽऽत्माप्यभ्युपगन्तव्यः, तथा चाह - "ज्ञानं खस्थं परस्थं वा, यथा ज्ञानेन गृह्यते । ज्ञाता स्वस्थः परस्थो वा, तथा ज्ञानेन गृह्यताम् ॥ १ ॥” इति । अथ सर्वसम्बन्ध्यनुपलम्भ आत्माभावे हेतुः, अयमप्यसिद्धः, अहमस्मीति प्रत्ययेन प्रतिप्राणि स्वात्मनः केवलिनां च सर्वात्मनामुपलम्भस्य प्रतिषेद्धुमशक्यत्वात् । एवमृद्धीनामप्यभावे सर्वसम्बन्ध्यनुपलम्भोऽसिद्धः, खसम्बन्धी तु निय | तदेशकालापेक्षोऽन्यथा वा ?, प्रथमपक्षे को वा किमाह ?, क्वचित्कदाचित्तासामनुपलम्भस्य (उपलम्भस्य) चास्माकमपि संमतत्वात्, द्वितीयपक्षे पुनरनैकान्तिकता, देशादिविप्रकृष्टानामनुपलम्भेऽपि सत्त्वात् दृश्यते च क्वचित् कदाचित् | चरणरेणुस्पर्शादितो रोगोपशमादि, ततश्चेहापि कालान्तरे महाविदेहादिषु सर्वकालमृज्यन्तराणामपि सम्भवस्यानुमीयमानत्वात्, यदपि वञ्चितोऽस्मीति भोगसुखानामनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेनेति, तदप्यसमीक्षिताभिधानं, भोगसुखानां दुःखानुषक्तत्वेन तत्त्ववेदिनामनादेयत्वात् तथा च वात्स्यायनोऽप्याह Jain Educationonal For Private & Personal Use Only ainelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy