________________
अध्ययनम्
॥१०॥
उत्तराध्य. प्यामि' व्याख्याद्वारेण संशब्दयिष्यामीति गाथार्थः ॥ २७ ॥ तत्र चाद्यं विनयश्रुतमिति तस्य कीर्तनावसरः, न
च तद् उपक्रमाद्यनुयोगद्वारतद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादनमन्तरेण शक्यं कीर्तयितुमिति मन्वानः प्रस्तुताबृहद्वृत्तिः
है ध्ययनस्यानुयोगविधानक्रममर्थाधिकारं चाह
तत्थऽज्झयणं पढमं विणयसुयं तस्सुवकमाईणि । दाराणि पन्नवेउं अहिगारो इत्थ विणएणं ॥ २८॥ | व्याख्या-तत्र' एतेष्वध्ययनेषु मध्ये अध्ययनं 'प्रथमम्' आद्यं विनयाभिधानकं श्रुतं विनयश्रुतं मध्यपदलोपी समासः, 'तस्य' इति विनयश्रुतस्य उपक्रमादीनि द्वाराणि 'प्ररूप्य' तद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादनद्वारेण प्रज्ञाप्य, एतदनुयोगः कार्य इति शेषः, अधिकारश्चात्र विनयेन, तस्येहानेकधाऽभिधानात् । आह-'पढमे
विणओं' इत्यनेनैवोक्तत्वात् पुनरुक्तमेतद्, उच्यते, शास्त्रपिण्डार्थविषयं तत्, एतच प्रस्तुतैकाध्ययनगोचरमिति हैन पौनरुक्त्यमिति गाथार्थः ॥ २८ ॥ अत्रापि 'प्ररूप्ये'त्यवसरज्ञापनार्थमेव नियुक्तिकृतोक्तं, न तु प्ररूपयिष्यत
इति, अनुयोगद्वारेषूक्तत्वात् , तदुक्तानुसारेण किञ्चिदुच्यते-इह चत्वार्यनुयोगद्वाराणि-उपक्रमो निक्षेपोऽनुगमो नयश्चेति, तद्भेदा यथाक्रमं द्वौ त्रयो द्वौ द्वौ चेति, निरुक्तिश्चैवम्-उपक्रमणं दूरस्थस्य सतो वस्तुनस्तैस्तैः प्रकारैः समीपानयनमुपक्रमः, नियतं निश्चितं वा नामादिसम्भवत्पक्षरचनात्मक क्षेपणं-न्यसनं निक्षेपः, अनुरूपं सूत्रार्था
ACE
॥१०॥
Jain Education
For Private & Personal use only