________________
उत्तराध्य.
बृहद्वृत्तिः
॥८२॥
व्याख्या-'तद्यथे'त्युदाहरणोपन्यासार्थः दिगिन्छापरीषहः १, पिपासापरीपहः२, शीतपरीपहः३, उष्णपरीषहः परीषहा४, दंशमशकपरीषहः ५, अचेलपरीपहः ६, अरतिपरीषहः ७, स्त्रीपरीषहः ८, चर्यापरीषहः ९, नैषेधिकीपरीषहः ध्ययनम् १०, शय्यापरीषहः ११, आक्रोशपरीपहः १२, वधपरीवहः १३, याचनापरीषहः १४, अलाभपरीषहः १५, रोगपरीषहः १६, तृणस्पर्शपरीषहः १७, जल्लपरीषहः १८, सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीषहः २०, अज्ञानपरीपहः २१, दर्शनपरीषहः २२ । इह च 'दिगिंछ'त्ति देशीवचनेन बुभुक्षोच्यते, सैवात्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्त्तनेन परीति-सर्वप्रकारं सह्यत इति परीपहः दिगिंछापरीषहः ?, एवं पातुमिच्छा पिपासा सैव परीषहः पिपासापरीषहः२, 'श्यैङगतावि' त्यस्य गत्यर्थत्वात्कतरिक्तः, ततो 'द्रवमूर्तिस्पशेयोः श्यः', (पा०६-१-२४) इति संप्रसारणे स्पर्शवाचित्वाच 'श्योऽस्पर्श' (पा०८-२-७) इति नत्वाभावे शीतं-शिशिरः स्पर्शस्तदेव परीषहः शीतपरीपहः ३, "उप दाह' इत्यस्यौणादिकनकप्रत्ययान्तस्य उष्णं-निदाघादितापात्मकं तदेव परीषहः उष्णपरीपहः ४, दोशन्तीति दंशाः पचादित्वादच , मारयितुं शक्नुवन्ति मशकाः, दंशाश्च मशकाश्च दंशमशकाः, यूकाद्युपलक्षणं चैतत् त एव परीषहो दंशमशकपरीपहः ५, अचेलं-चेलाभावो जिनकल्पिकादीनाम् अन्येषां तु
SA॥८॥ भिन्नमल्पमूल्यं च चेलमप्यचेलमेव, अवस्त्राशीलादिवत् , तदेव परीषहोऽचेलपरीषहः ६, रमणं रतिः-संयमविषया धृतिः तद्विपरीता त्वरतिः, सैव परीषहः अरतिपरीषहः ७, स्त्यायतेः स्तृणोते, त्रटि टित्त्वाच ङीपि स्त्री सैव तद
-MA SCCC
20
Jain Education International
For Private & Personal use only